अथर्ववेद - काण्ड 5/ सूक्त 8/ मन्त्र 4
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - भुरिक्पथ्यापङ्क्तिः
सूक्तम् - शत्रुनाशन सूक्त
अति॑ धावतातिसरा॒ इन्द्र॑स्य॒ वच॑सा हत। अविं॒ वृक॑ इव मथ्नीत॒ स वो॒ जीव॒न्मा मो॑चि प्रा॒णम॒स्यापि॑ नह्यत ॥
स्वर सहित पद पाठअति॑ । धा॒व॒त॒ । अ॒ति॒ऽस॒रा॒: । इन्द्र॑स्य । वच॑सा । ह॒त॒ । अवि॑म् । वृक॑:ऽइव । म॒थ्नी॒त॒ । स: । व॒: । जीव॑न् । मा । मो॒चि॒। प्रा॒णम् । अ॒स्य । अपि॑ । न॒ह्य॒त॒ ॥८.४॥
स्वर रहित मन्त्र
अति धावतातिसरा इन्द्रस्य वचसा हत। अविं वृक इव मथ्नीत स वो जीवन्मा मोचि प्राणमस्यापि नह्यत ॥
स्वर रहित पद पाठअति । धावत । अतिऽसरा: । इन्द्रस्य । वचसा । हत । अविम् । वृक:ऽइव । मथ्नीत । स: । व: । जीवन् । मा । मोचि। प्राणम् । अस्य । अपि । नह्यत ॥८.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 8; मन्त्र » 4
विषय - राजा के धर्म का उपदेश।
पदार्थ -
(अतिसराः) हे उद्योगी शूरो ! (अति धावत) अत्यन्त करके धावा करो। (इन्द्रस्य) परम ऐश्वर्यवाले राजा के (वचसा) वचन से (हत) मारो। [उसे] (मथ्नीत) मथ डालो, (वृक इव) जैसे भेड़िया (अविम्) भेड़ को। (सः) वो (जीवन्) जीता हुआ (वः) तुम्हारी (मा मोचि) मुक्ति न पावे। (अस्य) इसके (प्राणम्) प्राण को (अपि) भी (नह्यत) बाँध लो ॥४॥
भावार्थ - शूरवीर पुरुष राजा की आज्ञा से चढ़ाई करके शत्रुओं का सर्वथा नाश करें ॥४॥
टिप्पणी -
४−(अति) अत्यन्त (धावत) धावु गतिशुद्ध्योः। शीघ्रं गच्छत (अतिसराः) म० २। अर्शआद्यच्। हे अतिसरोपेताः। हे उद्योगिनः पुरुषाः (इन्द्रस्य) परमैश्वर्यवतो राज्ञः (वचसा) वचनेन (हत) नाशयत (अविम्) रक्षणीयं मेषम् (वृकः) आदाने−क। आदानशीलो घातकजन्तुविशेषः (इव) यथा (मथ्नीत) विलोडयत। (सः) शत्रुः (वः) युष्माकम् (जीवन्) प्राणान् धारयन् (मा मोचि) मुक्तिं न प्राप्नुयात् (प्राणम्) जीवनम् (अस्य) शत्रोः (अपि) (नह्यत) बध्नीत ॥