Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 30/ मन्त्र 1
सूक्त - भृग्वङ्गिराः
देवता - द्यावापृथिवी, मित्रः, ब्रह्मणस्पतिः
छन्दः - बृहती
सूक्तम् - अञ्जन सूक्त
स्वाक्तं॑ मे॒ द्यावा॑पृथि॒वी स्वाक्तं॑ मि॒त्रो अ॑कर॒यम्। स्वाक्तं॑ मे॒ ब्रह्म॑ण॒स्पतिः॒ स्वाक्तं॑ सवि॒ता क॑रत् ॥
स्वर सहित पद पाठसु॒ऽआक्त॑म् । मे॒ । द्यावा॑पृथि॒वी इति॑ । सु॒ऽआक्त॑म् । मि॒त्र: । अ॒क॒: । अ॒यम् । सु॒ऽआक्त॑म् । मे॒ । ब्रह्म॑ण: । पति॑: । सु॒ऽआक्त॑म् । स॒वि॒ता । क॒र॒त् ॥३१.१॥
स्वर रहित मन्त्र
स्वाक्तं मे द्यावापृथिवी स्वाक्तं मित्रो अकरयम्। स्वाक्तं मे ब्रह्मणस्पतिः स्वाक्तं सविता करत् ॥
स्वर रहित पद पाठसुऽआक्तम् । मे । द्यावापृथिवी इति । सुऽआक्तम् । मित्र: । अक: । अयम् । सुऽआक्तम् । मे । ब्रह्मण: । पति: । सुऽआक्तम् । सविता । करत् ॥३१.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 30; मन्त्र » 1
विषय - शुभ कर्म करने का उपदेश।
पदार्थ -
(द्यावापृथिवी) सूर्य और पृथिवी ने (मे) मेरा (स्वाक्तम्) स्वागत [किया है], (अयम्) इस (मित्रः) मित्र [माता-पिता आदि] ने (स्वाक्तम्) स्वागत (अकः) किया है। (ब्रह्मणः) वेदविद्या का (पतिः) रक्षक [आचार्य] (मे) मेरा (स्वाक्तम्) स्वागत, और (सविता) प्रजाप्रेरक शूर पुरुष (स्वाक्तम्) स्वागत (करत्) करे ॥१॥
भावार्थ - मनुष्य सदा ऐसे शुभ कर्म करे, जिससे संसार के सब पदार्थ और विद्वान् लोग उसके उपकारी होवें ॥१॥
टिप्पणी -
१−(स्वाक्तम्) सु+आङ्+अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-क्त। स्वागतम् शुभागमनम्, अकार्ष्टाम्, कृतवत्यौ-इति शेषः (मे) मम (द्यावापृथिवी) द्यावापृथिव्यौ (मित्रः) मातापित्रादिः (अकः) अ० १।८।१। करोतेर्लुङि, इकारलोपे तलोपः। अकार्षीत् (अयम्) समीपवर्ती (ब्रह्मणः) वेदस्य (पतिः) रक्षकः आचार्यः। (सविता) प्रजाप्रेरकः शूरः (करत्) लेटि रूपम्। कुर्यात्। अन्यद् गतम् ॥