Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 40/ मन्त्र 2
सूक्त - प्रस्कण्वः
देवता - सरस्वान्
छन्दः - त्रिष्टुप्
सूक्तम् - सरस्वान् सूक्त
आ प्र॒त्यञ्चं॑ दा॒शुषे॑ दा॒श्वंसं॒ सर॑स्वन्तं पुष्ट॒पतिं॑ रयि॒ष्ठाम्। रा॒यस्पोषं॑ श्रव॒स्युं वसा॑ना इ॒ह हु॑वेम सद॑नं रयी॒णाम् ॥
स्वर सहित पद पाठआ । प्र॒त्यञ्च॑म् । दा॒शुषे॑ । दा॒श्वंस॑म् । सर॑स्वन्तम् । पु॒ष्ट॒ऽपति॑म् । र॒यि॒ऽस्थाम् । रा॒य: । पोष॑म् । श्र॒व॒स्युम् । वसा॑ना: । इ॒ह । हु॒वे॒म॒ । सद॑नम् । र॒यी॒णाम् ॥४१.२॥
स्वर रहित मन्त्र
आ प्रत्यञ्चं दाशुषे दाश्वंसं सरस्वन्तं पुष्टपतिं रयिष्ठाम्। रायस्पोषं श्रवस्युं वसाना इह हुवेम सदनं रयीणाम् ॥
स्वर रहित पद पाठआ । प्रत्यञ्चम् । दाशुषे । दाश्वंसम् । सरस्वन्तम् । पुष्टऽपतिम् । रयिऽस्थाम् । राय: । पोषम् । श्रवस्युम् । वसाना: । इह । हुवेम । सदनम् । रयीणाम् ॥४१.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 40; मन्त्र » 2
विषय - ईश्वर के उपासना का उपदेश।
पदार्थ -
(प्रत्यञ्चम्) प्रत्यक्षव्यापक, (दाशुषे) आत्मदान करनेवाले [भक्त] को (दाश्वंसम्) सुख देनेवाले (पुष्टपतिम्) पोषण के स्वामी, (रयिष्ठाम्) धन में स्थितिवाले, (रायः) धन के (पोषम्) बढ़ानेवाले, (श्रवस्युम्) सुननेवाले, (रयीणाम्) अनेक धनों के (सदनम्) भण्डार (सरस्वन्तम्) बड़े ज्ञानवान् परमेश्वर को (वसानाः) स्वीकार करते हुए हम लोग (इह) यहाँ पर (आ) सब प्रकार (हुवेम) बुलावें ॥२॥
भावार्थ - मनुष्य प्रयत्नपूर्वक परमेश्वर के अनन्त भण्डार से अनेक प्रकार के धन प्राप्त करके सुखी रहें ॥२॥
टिप्पणी -
२−(आ) समन्तात् (प्रत्यञ्चम्) प्रत्यक्षव्यापकम् (दाशुषे) अ० ४।२४।१। आत्मानं दत्तवते (दाश्वंसम्) छान्दसो ह्रस्वः। दाश्वांसम्। सुखस्य दातारम् (सरस्वन्तम्)-म० १। पूर्णविज्ञानवन्तम् (पुष्टपतिम्) पोषणस्य स्वामिनम् (रयिष्ठम्) धने स्थितम् (रायः) धनस्य (पोषम्) पुष पुष्टौ पचाद्यच्। पोषकम् (श्रवस्युम्) अ० ६।९८।२। श्रवणशीलम् (वसानाः) वस स्वीकारे चुरादिः, शानचि छान्दसं रूपम्। स्वीकुर्वाणाः (इह) अस्मिन् संसारे (हुवेम) लिङ्याशिष्यङ्। पा० ३।१।८६। इति ह्वेञ् आह्वाने-अङ्। बहुलं छन्दसि। पा० ६।१।३४। सम्प्रसारणम्। हूयास्म। आह्वयेम (सदनम्) गृहम् (रयीणाम्) धनानाम् ॥