Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1814
ऋषिः - परुच्छेपो दैवोदासिः
देवता - अग्निः
छन्दः - अत्यष्टिः
स्वरः - गान्धारः
काण्ड नाम -
1
य꣡जि꣢ष्ठं त्वा꣣ य꣡ज꣢माना हुवेम꣣ ज्ये꣢ष्ठ꣣म꣡ङ्गि꣢रसां विप्र꣣ म꣡न्म꣢भि꣣र्वि꣡प्रे꣢भिः शुक्र꣣ म꣡न्म꣢भिः । प꣡रि꣢ज्मानमिव꣣ द्या꣡ꣳ होता꣢꣯रं चर्षणी꣣ना꣢म् । शो꣣चि꣡ष्के꣢शं꣣ वृ꣡ष꣢णं꣣ य꣢मि꣣मा꣢꣫ विशः꣣ प्रा꣡व꣢न्तु जू꣣त꣢ये꣣ वि꣡शः꣢ ॥१८१४॥
स्वर सहित पद पाठय꣡जि꣢꣯ष्ठम् । त्वा꣣ । य꣡ज꣢꣯मानाः । हु꣣वेम । ज्ये꣡ष्ठ꣢꣯म् । अ꣡ङ्गि꣢꣯रसाम् । वि꣣प्र । वि । प्र । म꣡न्म꣢꣯भिः । वि꣡प्रे꣢꣯भिः । वि । प्रे꣣भिः । शुक्र । म꣡न्म꣢꣯भिः । प꣡रि꣢꣯ज्मानम् । प꣡रि꣢꣯ । ज्मा꣣नम् । इव । द्या꣢म् । हो꣡ता꣢꣯रम् । च꣣र्षणीना꣢म् । शो꣣चि꣡ष्के꣢शम् । शो꣣चिः꣢ । के꣣शम् । वृ꣡ष꣢꣯णम् । य꣢म् । इ꣣माः꣢ । वि꣡शः꣢꣯ । प्र । अ꣣वन्तु । जूत꣡ये꣢ । वि꣡शः꣢꣯ ॥१८१४॥
स्वर रहित मन्त्र
यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः । परिज्मानमिव द्याꣳ होतारं चर्षणीनाम् । शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥१८१४॥
स्वर रहित पद पाठ
यजिष्ठम् । त्वा । यजमानाः । हुवेम । ज्येष्ठम् । अङ्गिरसाम् । विप्र । वि । प्र । मन्मभिः । विप्रेभिः । वि । प्रेभिः । शुक्र । मन्मभिः । परिज्मानम् । परि । ज्मानम् । इव । द्याम् । होतारम् । चर्षणीनाम् । शोचिष्केशम् । शोचिः । केशम् । वृषणम् । यम् । इमाः । विशः । प्र । अवन्तु । जूतये । विशः ॥१८१४॥
सामवेद - मन्त्र संख्या : 1814
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
भावार्थ - विप्रजनाची साथ घेऊन सामूहिक उपासनेने सर्वांनी त्या परमात्म्याची पूजा केली पाहिजे, जो सृष्टियज्ञाचा संचालक, ज्येष्ठ, श्रेष्ठ सर्वात अधिक तेजस्वी व मनोरथांना पूर्ण करणारा आहे व जो सूर्याला पूर्वेकडून पश्चिमेपर्यंत प्रवास करत त्याच्याद्वारे जणू आकाशाचे मापन करतो. ॥२॥
इस भाष्य को एडिट करें