Loading...
ऋग्वेद मण्डल - 8 के सूक्त 10 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 10/ मन्त्र 1
    ऋषिः - प्रगाथः काण्वः देवता - अश्विनौ छन्दः - विराड्बृहती स्वरः - मध्यमः

    यत्स्थो दी॒र्घप्र॑सद्मनि॒ यद्वा॒दो रो॑च॒ने दि॒वः । यद्वा॑ समु॒द्रे अध्याकृ॑ते गृ॒हेऽत॒ आ या॑तमश्विना ॥

    स्वर सहित पद पाठ

    यत् । स्थः । दी॒र्घऽप्र॑सद्मनि । यत् । वा॒ । अ॒दः । रो॒च॒ने । दि॒वः । यत् । वा॒ । स॒मु॒द्रे । अधि॑ । आऽकृ॑ते । गृ॒हे । अतः॑ । आ । या॒त॒म् । अ॒श्वि॒ना॒ ॥


    स्वर रहित मन्त्र

    यत्स्थो दीर्घप्रसद्मनि यद्वादो रोचने दिवः । यद्वा समुद्रे अध्याकृते गृहेऽत आ यातमश्विना ॥

    स्वर रहित पद पाठ

    यत् । स्थः । दीर्घऽप्रसद्मनि । यत् । वा । अदः । रोचने । दिवः । यत् । वा । समुद्रे । अधि । आऽकृते । गृहे । अतः । आ । यातम् । अश्विना ॥ ८.१०.१

    ऋग्वेद - मण्डल » 8; सूक्त » 10; मन्त्र » 1
    अष्टक » 5; अध्याय » 8; वर्ग » 34; मन्त्र » 1

    पदार्थः -
    हे अश्विना=अश्विनौ=प्रजानियुक्तौ पुण्यकृतराजानौ ! युवाम् । दीर्घप्रसद्मनि=प्रकर्षेण सीदन्ति उपविशन्ति प्रसीदन्ति हृष्यन्ति वा मनुष्या यत्र तत् प्रसद्मम्=प्रासादो राजभवनम् । दीर्घं प्रसद्म=दीर्घप्रसद्म । महा= प्रासादस्तस्मिन् । यद्=यदि सम्प्रति । स्थः=विराजमानौ वर्तेथे । यद्वा । दिवः=क्रीडायाः । दिवु क्रीडाविजिगीषादिषु । अदोऽमुष्मिन् । रोचने=दीपने गृहे । क्रीडागृहे स्थ इत्यर्थः । यद्वा । समुद्रे=जलनिधौ । अध्याकृते=अधिकृतनिर्मिते । गृहभवने सम्प्रति वर्तेथे । अतोऽस्मात् स्थानत्रयादपि । अस्मान् आयातमागच्छतम् ॥१ ॥

    इस भाष्य को एडिट करें
    Top