ऋग्वेद - मण्डल 8/ सूक्त 16/ मन्त्र 12
स त्वं न॑ इन्द्र॒ वाजे॑भिर्दश॒स्या च॑ गातु॒या च॑ । अच्छा॑ च नः सु॒म्नं ने॑षि ॥
स्वर सहित पद पाठसः । त्वम् । नः॒ । इ॒न्द्र॒ । वाजे॑भिः । द॒श॒स्य । च॒ । गा॒तु॒ऽय । च॒ । अच्छ॑ । च॒ । नः॒ । सु॒म्नम् । ने॒षि॒ ॥
स्वर रहित मन्त्र
स त्वं न इन्द्र वाजेभिर्दशस्या च गातुया च । अच्छा च नः सुम्नं नेषि ॥
स्वर रहित पद पाठसः । त्वम् । नः । इन्द्र । वाजेभिः । दशस्य । च । गातुऽय । च । अच्छ । च । नः । सुम्नम् । नेषि ॥ ८.१६.१२
ऋग्वेद - मण्डल » 8; सूक्त » 16; मन्त्र » 12
अष्टक » 6; अध्याय » 1; वर्ग » 21; मन्त्र » 6
अष्टक » 6; अध्याय » 1; वर्ग » 21; मन्त्र » 6
विषयः - इन्द्रः प्रार्थ्यते ।
पदार्थः -
हे इन्द्र ! स त्वम् । नोऽस्मभ्यम् । वाजेभिः=वाजान् ज्ञानानि । दशस्य=देहि । दशधातुर्दानार्थको वेदे । यद्वा । वाजेभिर्विज्ञानैः सह धनं प्रयच्छ वा । च । अन्यान्यपि अभीष्टानि देहि । च पुनः । गातुय=शोभनं मार्गं प्रदर्शय । च पुनः । नोऽस्मभ्यम् । सुम्नम्=सुखम् । अच्छ=अभि । नेषि=प्रापय ॥१२ ॥