ऋग्वेद - मण्डल 8/ सूक्त 17/ मन्त्र 1
आ या॑हि सुषु॒मा हि त॒ इन्द्र॒ सोमं॒ पिबा॑ इ॒मम् । एदं ब॒र्हिः स॑दो॒ मम॑ ॥
स्वर सहित पद पाठआ । या॒हि॒ । सु॒सु॒म । हि । ते॒ । इन्द्र॑ । सोम॑म् । पिब॑ । इ॒मम् । आ । इ॒दम् । ब॒र्हिः । स॒दः॒ । मम॑ ॥
स्वर रहित मन्त्र
आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । एदं बर्हिः सदो मम ॥
स्वर रहित पद पाठआ । याहि । सुसुम । हि । ते । इन्द्र । सोमम् । पिब । इमम् । आ । इदम् । बर्हिः । सदः । मम ॥ ८.१७.१
ऋग्वेद - मण्डल » 8; सूक्त » 17; मन्त्र » 1
अष्टक » 6; अध्याय » 1; वर्ग » 22; मन्त्र » 1
अष्टक » 6; अध्याय » 1; वर्ग » 22; मन्त्र » 1
विषयः - परमदेवता प्रार्थ्यते ।
पदार्थः -
मनुष्या यत्किमपि कुर्वन्ति यत्पचन्ति यद् जुह्वति यद् ददति तत्सर्वं परमात्मने समर्पणीयमित्यनया शिक्षते । यथा−हे इन्द्र ! आयाहि=अस्मत्समीपम् एहि । हि=यतः । वयम् । ते=त्वामुद्दिश्य । सुसुम=सुनुमः=यज्ञं सम्पादयामः । हे इन्द्र ! त्वम् । इमं सोमम्=यज्ञे स्थापितं पदार्थजातम् । पिब=कृपादृष्ट्या अवलोकय । हे भगवन् ! मम इदं बर्हिर्बृहदन्तःकरणमासनम् । आसदः=आसीद=उपविश ॥१ ॥