ऋग्वेद - मण्डल 8/ सूक्त 2/ मन्त्र 7
ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः
देवता - इन्द्र:
छन्दः - विराडार्षीगायत्री
स्वरः - षड्जः
त्रय॒ इन्द्र॑स्य॒ सोमा॑: सु॒तास॑: सन्तु दे॒वस्य॑ । स्वे क्षये॑ सुत॒पाव्न॑: ॥
स्वर सहित पद पाठत्रयः॑ । इन्द्र॑स्य । सोमाः॑ । सु॒तासः॑ । स॒न्तु॒ । दे॒वस्य॑ । स्वे । क्षये॑ । सु॒त॒ऽपाव्नः॑ ॥
स्वर रहित मन्त्र
त्रय इन्द्रस्य सोमा: सुतास: सन्तु देवस्य । स्वे क्षये सुतपाव्न: ॥
स्वर रहित पद पाठत्रयः । इन्द्रस्य । सोमाः । सुतासः । सन्तु । देवस्य । स्वे । क्षये । सुतऽपाव्नः ॥ ८.२.७
ऋग्वेद - मण्डल » 8; सूक्त » 2; मन्त्र » 7
अष्टक » 5; अध्याय » 7; वर्ग » 18; मन्त्र » 2
अष्टक » 5; अध्याय » 7; वर्ग » 18; मन्त्र » 2
विषयः - सर्वे लोका अस्य प्रिया भवन्त्विति प्रार्थ्यते ।
पदार्थः -
देवस्य=दीप्तिमतः प्रकाशरूपस्य । सुतपाव्नः=सुतान् सृष्टियज्ञाय निष्पादितान् सर्वान् पदार्थान् पाति रक्षति पिबति संहरतीति वा । तस्य इन्द्रस्य । स्वे=निजे । क्षये=स्थाने धाम्नि । त्रयः=त्रयो लोकाः । सोमाः=सोमवत् । तथा । सुतासः=सुता यज्ञनिष्पादिताः पदार्था इव । सन्तु=प्रिया भवन्तु । वयं तस्मै किं दास्यामः । तस्यैव य इमे त्रयो लोकाः सन्ति । त एव यज्ञियपदार्था इव भवन्तु । यद्वा । अस्य इम एव त्रयो लोकाः सर्वेषामस्माकं सोमवत् सुतवच्च प्रिया भवन्तु ॥७ ॥