ऋग्वेद - मण्डल 8/ सूक्त 2/ मन्त्र 6
ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः
देवता - इन्द्र:
छन्दः - आर्षीगायत्री
स्वरः - षड्जः
गोभि॒र्यदी॑म॒न्ये अ॒स्मन्मृ॒गं न व्रा मृ॒गय॑न्ते । अ॒भि॒त्सर॑न्ति धे॒नुभि॑: ॥
स्वर सहित पद पाठगोभिः॑ । यत् । ई॒म् । अ॒न्ये । अ॒स्मत् । मृ॒गम् । न । व्राः । मृ॒गय॑न्ते । अ॒भि॒ऽत्सर॑न्ति । धे॒नुऽभिः॑ ॥
स्वर रहित मन्त्र
गोभिर्यदीमन्ये अस्मन्मृगं न व्रा मृगयन्ते । अभित्सरन्ति धेनुभि: ॥
स्वर रहित पद पाठगोभिः । यत् । ईम् । अन्ये । अस्मत् । मृगम् । न । व्राः । मृगयन्ते । अभिऽत्सरन्ति । धेनुऽभिः ॥ ८.२.६
ऋग्वेद - मण्डल » 8; सूक्त » 2; मन्त्र » 6
अष्टक » 5; अध्याय » 7; वर्ग » 18; मन्त्र » 1
अष्टक » 5; अध्याय » 7; वर्ग » 18; मन्त्र » 1
विषयः - स एवान्वेषणीय इत्यनया दर्शयति ।
पदार्थः -
अस्मद्=अस्मत्तः । अन्ये केचन । गोभिः= साधारणवाणीभिः, इन्द्रियैर्वा । गोशब्दोऽनेकार्थः । यद्=यमिन्द्रम् । ईं=निश्चयेन । मृगयन्ते=अन्विष्यन्ति । मृग अन्वेषणे । अन्ये केचन । धेनुभिः=फलप्रदात्रीभिः सुसंस्कृताभिर्वाणीभिः स्तोत्ररूपाभिः । धेनुरिति वाङ्नामसु पठितम् । यमिन्द्रम् । अभित्सरन्ति=सर्वभावेन गच्छन्ति प्राप्नुवन्ति तमेव । हे जना यूयमपि अर्चत । त्सर छद्मगतौ अत्र दृष्टान्तः−व्राः=व्याधाः । न=यथा । मृगं=पशुम् । यथा व्याधाः पशुं मृगयन्ते तद्वत् सर्वे तमेव परमात्मानं गवेषन्त इत्यर्थः ॥६ ॥