Loading...
ऋग्वेद मण्डल - 8 के सूक्त 20 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 20/ मन्त्र 21
    ऋषिः - सोभरिः काण्वः देवता - मरूतः छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    गाव॑श्चिद्घा समन्यवः सजा॒त्ये॑न मरुत॒: सब॑न्धवः । रि॒ह॒ते क॒कुभो॑ मि॒थः ॥

    स्वर सहित पद पाठ

    गावः॑ । चि॒त् । घ॒ । स॒ऽम॒न्य॒वः॒ । स॒ऽजा॒त्ये॑न । म॒रु॒तः॒ । सऽब॑न्धवः । रि॒ह॒ते । क॒कुभः॑ । मि॒थः ॥


    स्वर रहित मन्त्र

    गावश्चिद्घा समन्यवः सजात्येन मरुत: सबन्धवः । रिहते ककुभो मिथः ॥

    स्वर रहित पद पाठ

    गावः । चित् । घ । सऽमन्यवः । सऽजात्येन । मरुतः । सऽबन्धवः । रिहते । ककुभः । मिथः ॥ ८.२०.२१

    ऋग्वेद - मण्डल » 8; सूक्त » 20; मन्त्र » 21
    अष्टक » 6; अध्याय » 1; वर्ग » 40; मन्त्र » 1

    पदार्थः -
    हे समन्यवः=समानतेजस्काः समानक्रोधा वा । हे मरुतः=दुष्टमारकाः शिष्टरक्षकाः सैनिकाः । सजात्येन=समानजात्या । सबन्धवः=समानबन्धुकाः । इमाश्चिद् । गावः=यशोगायिकाः प्रजाः । ककुभः=स्वस्वप्रदेशान् आश्रित्य । मिथः=परस्परम् । रिहते=लिहन्ति । प्रीणयन्तीत्यर्थः ॥२१ ॥

    इस भाष्य को एडिट करें
    Top