Loading...
ऋग्वेद मण्डल - 8 के सूक्त 22 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 22/ मन्त्र 16
    ऋषिः - सोभरिः काण्वः देवता - अश्विनौ छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    मनो॑जवसा वृषणा मदच्युता मक्षुंग॒माभि॑रू॒तिभि॑: । आ॒रात्ता॑च्चिद्भूतम॒स्मे अव॑से पू॒र्वीभि॑: पुरुभोजसा ॥

    स्वर सहित पद पाठ

    मनः॑ऽजवसा । वृ॒ष॒णा॒ । म॒द॒ऽच्यु॒ता॒ । म॒क्षु॒म्ऽग॒माभिः॑ । ऊ॒तिऽभिः॑ । आ॒रात्ता॑त् । चि॒त् । भू॒त॒म् । अ॒स्मे इति॑ । अव॑से । पू॒र्वीऽभिः॑ । पु॒रु॒ऽभो॒ज॒सा॒ ॥


    स्वर रहित मन्त्र

    मनोजवसा वृषणा मदच्युता मक्षुंगमाभिरूतिभि: । आरात्ताच्चिद्भूतमस्मे अवसे पूर्वीभि: पुरुभोजसा ॥

    स्वर रहित पद पाठ

    मनःऽजवसा । वृषणा । मदऽच्युता । मक्षुम्ऽगमाभिः । ऊतिऽभिः । आरात्तात् । चित् । भूतम् । अस्मे इति । अवसे । पूर्वीऽभिः । पुरुऽभोजसा ॥ ८.२२.१६

    ऋग्वेद - मण्डल » 8; सूक्त » 22; मन्त्र » 16
    अष्टक » 6; अध्याय » 2; वर्ग » 8; मन्त्र » 1

    पदार्थः -
    हे मनोजवसा=मनोवेगौ ! हे वृषणा=धनवर्षितारौ । हे मदच्युता=आनन्दवर्षितारौ । हे पुरुभोजसा=बहूनां भौजयितारौ=पालयितारौ । राजानौ ! पूर्वीभिः=पुरातनीभिः । मक्षुंगमाभिः=शीघ्रं गामिनीभिः । ऊतिभिः=रक्षाभिः । अस्मे=अस्माकम् । अवसे=रक्षणाय । आरात्तात् चित्= समीपमेव । भूतम्=भवतम् ॥१६ ॥

    इस भाष्य को एडिट करें
    Top