Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 23/ मन्त्र 30
    ऋषिः - विश्वमना वैयश्वः देवता - अग्निः छन्दः - विराडुष्निक् स्वरः - ऋषभः

    अग्ने॒ त्वं य॒शा अ॒स्या मि॒त्रावरु॑णा वह । ऋ॒तावा॑ना स॒म्राजा॑ पू॒तद॑क्षसा ॥

    स्वर सहित पद पाठ

    अग्ने॑ । त्वम् । य॒शाः । अ॒सि॒ । आ । मि॒त्रावरु॑णा । व॒ह॒ । ऋ॒तऽवा॑ना । स॒म्ऽराजा॑ । पू॒तऽद॑क्षसा ॥


    स्वर रहित मन्त्र

    अग्ने त्वं यशा अस्या मित्रावरुणा वह । ऋतावाना सम्राजा पूतदक्षसा ॥

    स्वर रहित पद पाठ

    अग्ने । त्वम् । यशाः । असि । आ । मित्रावरुणा । वह । ऋतऽवाना । सम्ऽराजा । पूतऽदक्षसा ॥ ८.२३.३०

    ऋग्वेद - मण्डल » 8; सूक्त » 23; मन्त्र » 30
    अष्टक » 6; अध्याय » 2; वर्ग » 14; मन्त्र » 5

    पदार्थः -
    हे अग्ने ! त्वम् । यशाः=यशस्वी । असि । अतः । ऋतावाना=तव सत्यनियमपालकौ । पूतदक्षसा=पवित्रबलौ । सम्राजा=सम्राजौ । मित्रावरुणा=मित्रावरुणौ=ब्राह्मणक्षत्रियौ । आवह=धारय=पोषय ॥३० ॥

    इस भाष्य को एडिट करें
    Top