ऋग्वेद - मण्डल 8/ सूक्त 24/ मन्त्र 30
ऋषिः - विश्वमना वैयश्वः
देवता - वरोः सौषाम्णस्य दानस्तुतिः
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
यत्त्वा॑ पृ॒च्छादी॑जा॒नः कु॑ह॒या कु॑हयाकृते । ए॒षो अप॑श्रितो व॒लो गो॑म॒तीमव॑ तिष्ठति ॥
स्वर सहित पद पाठयत् । त्वा॒ । पृ॒च्छात् । ई॒जा॒नः । कु॒ह॒या । कु॒ह॒या॒ऽकृ॒ते॒ । ए॒षः । अप॑ऽश्रितः । व॒लः । गो॒ऽम॒तीम् । अव॑ । ति॒ष्ठ॒ति॒ ॥
स्वर रहित मन्त्र
यत्त्वा पृच्छादीजानः कुहया कुहयाकृते । एषो अपश्रितो वलो गोमतीमव तिष्ठति ॥
स्वर रहित पद पाठयत् । त्वा । पृच्छात् । ईजानः । कुहया । कुहयाऽकृते । एषः । अपऽश्रितः । वलः । गोऽमतीम् । अव । तिष्ठति ॥ ८.२४.३०
ऋग्वेद - मण्डल » 8; सूक्त » 24; मन्त्र » 30
अष्टक » 6; अध्याय » 2; वर्ग » 20; मन्त्र » 5
अष्टक » 6; अध्याय » 2; वर्ग » 20; मन्त्र » 5
विषयः - शुभकर्मफलं दर्शयति ।
पदार्थः -
हे कुहयाकृते=हे जिज्ञासो ! ईजानः=इष्टवान् पुरुषः । कुहया=क्व सम्प्रति वर्तते । यद्=यदि एवंविधं प्रश्नम् । त्वा=त्वाम् । पृच्छात्=पृच्छेत । तर्ह्येतद्वाच्यम् । एषः । वलः=वरणीयः । स यजमानः । अपश्रितः=अस्मात् स्थानात् गतः । गत्वा च । गोमतीम्=गवादिपशुयुक्तां भूमिमाश्रित्य । अवतिष्ठति ॥३० ॥