ऋग्वेद - मण्डल 8/ सूक्त 25/ मन्त्र 1
ऋषिः - विश्वमना वैयश्वः
देवता - मित्रावरुणौ
छन्दः - निचृदुष्णिक्
स्वरः - ऋषभः
ता वां॒ विश्व॑स्य गो॒पा दे॒वा दे॒वेषु॑ य॒ज्ञिया॑ । ऋ॒तावा॑ना यजसे पू॒तद॑क्षसा ॥
स्वर सहित पद पाठता । वा॒म् । विश्व॑स्य । गो॒पा । दे॒वा । दे॒वेषु॑ । य॒ज्ञिया॑ । ऋ॒तऽवा॑ना । य॒ज॒से॒ । पू॒तऽद॑क्षसा ॥
स्वर रहित मन्त्र
ता वां विश्वस्य गोपा देवा देवेषु यज्ञिया । ऋतावाना यजसे पूतदक्षसा ॥
स्वर रहित पद पाठता । वाम् । विश्वस्य । गोपा । देवा । देवेषु । यज्ञिया । ऋतऽवाना । यजसे । पूतऽदक्षसा ॥ ८.२५.१
ऋग्वेद - मण्डल » 8; सूक्त » 25; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 21; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 21; मन्त्र » 1
विषयः - अथ ब्राह्मणक्षत्रियधर्मान् दर्शयति ।
पदार्थः -
हे मित्रावरुणौ=हे ब्रह्मक्षत्रौ प्रजापालकौ ! युवाम् । विश्वस्य=सर्वस्य कार्य्यस्य । गोपा=गोपौ=रक्षकौ । देवा=देवौ । देवेषु=विद्वत्सु । यज्ञियौ=यज्ञवत् सत्करणीयौ । ऋतावाना= ईश्वरीयसत्यनियमपालकौ । अतएव । पूतदक्षसा=पवित्रबलौ स्थः । ता=तौ=तादृशौ । वाम्=युवाम् । वयम् । यजसे= यजामहे=कार्येषु संगमयामहे ॥१ ॥