Loading...
ऋग्वेद मण्डल - 8 के सूक्त 25 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 25/ मन्त्र 2
    ऋषिः - विश्वमना वैयश्वः देवता - मित्रावरुणौ छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    मि॒त्रा तना॒ न र॒थ्या॒३॒॑ वरु॑णो॒ यश्च॑ सु॒क्रतु॑: । स॒नात्सु॑जा॒ता तन॑या धृ॒तव्र॑ता ॥

    स्वर सहित पद पाठ

    मि॒त्रा । तना॑ । न । र॒थ्या॑ । वरु॑णः । यः । च॒ । सु॒ऽक्रतुः॑ । स॒नात् । सु॒ऽजा॒ता । तन॑या । धृ॒तऽव्र॑ता ॥


    स्वर रहित मन्त्र

    मित्रा तना न रथ्या३ वरुणो यश्च सुक्रतु: । सनात्सुजाता तनया धृतव्रता ॥

    स्वर रहित पद पाठ

    मित्रा । तना । न । रथ्या । वरुणः । यः । च । सुऽक्रतुः । सनात् । सुऽजाता । तनया । धृतऽव्रता ॥ ८.२५.२

    ऋग्वेद - मण्डल » 8; सूक्त » 25; मन्त्र » 2
    अष्टक » 6; अध्याय » 2; वर्ग » 21; मन्त्र » 2

    पदार्थः -
    पुनस्तौ कीदृशौ । मित्रा=सर्वेषां मित्रभूतौ । तना=धनादिविस्तारकौ । न=पुनः । रथ्या=रथिनौ=सारथिनौ इव । तथा । वरुणः । सुक्रतुः=शोभनकर्मा । यश्च मित्रः । तौ पुनः कीदृशौ । सनात्=चिरादेव । सुजाता=सुजातौ=कुलीनौ । तनया=तनयौ=पुत्रौ । पुनः । धृतव्रता=कल्याणाय धृतव्रतौ ॥२ ॥

    इस भाष्य को एडिट करें
    Top