ऋग्वेद - मण्डल 8/ सूक्त 27/ मन्त्र 21
यद॒द्य सूर॒ उदि॑ते॒ यन्म॒ध्यंदि॑न आ॒तुचि॑ । वा॒मं ध॒त्थ मन॑वे विश्ववेदसो॒ जुह्वा॑नाय॒ प्रचे॑तसे ॥
स्वर सहित पद पाठयत् । अ॒द्य । सूरे॑ । उत्ऽइ॑ते । यत् । म॒ध्यन्दि॑ने । आ॒ऽतुचि॑ । वा॒मम् । ध॒त्थ । मन॑वे । वि॒श्व॒ऽवे॒द॒सः॒ । जुह्वा॑नाय । प्रऽचे॑तसे ॥
स्वर रहित मन्त्र
यदद्य सूर उदिते यन्मध्यंदिन आतुचि । वामं धत्थ मनवे विश्ववेदसो जुह्वानाय प्रचेतसे ॥
स्वर रहित पद पाठयत् । अद्य । सूरे । उत्ऽइते । यत् । मध्यन्दिने । आऽतुचि । वामम् । धत्थ । मनवे । विश्वऽवेदसः । जुह्वानाय । प्रऽचेतसे ॥ ८.२७.२१
ऋग्वेद - मण्डल » 8; सूक्त » 27; मन्त्र » 21
अष्टक » 6; अध्याय » 2; वर्ग » 34; मन्त्र » 5
अष्टक » 6; अध्याय » 2; वर्ग » 34; मन्त्र » 5
विषयः - विदुषामुदारतां दर्शयति ।
पदार्थः -
हे विश्ववेदसः=सर्वधनाः सर्वज्ञानाः ! यद्=यस्मात् । अद्य । सूरे=सूर्य्ये । उदिते । यद्=यस्मात् । मध्यन्दिने । आतुचि=सायंकाले वा । जुह्वानाय=जुह्वते=कर्मनिरताय । प्रचेतसे=प्रकृष्टज्ञानाय । मनवे=पुरुषाय । वामम्=वननीयम्= कमनीयं धनम् । धत्थ=धारयथ । तस्माद् युष्माकं गोष्ठीं वयं कामयामहै । वयमप्युदारा भवेमेति प्रार्थना ॥२१ ॥