ऋग्वेद - मण्डल 8/ सूक्त 27/ मन्त्र 22
ऋषिः - मनुर्वैवस्वतः
देवता - विश्वेदेवा:
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
व॒यं तद्व॑: सम्राज॒ आ वृ॑णीमहे पु॒त्रो न ब॑हु॒पाय्य॑म् । अ॒श्याम॒ तदा॑दित्या॒ जुह्व॑तो ह॒विर्येन॒ वस्यो॒ऽनशा॑महै ॥
स्वर सहित पद पाठव॒यम् । तत् । वः॒ । स॒म्ऽरा॒जः॒ । आ । वृ॒णी॒म॒हे॒ । पु॒त्रः । न । ब॒हु॒ऽपाय्य॑म् । अ॒श्याम॑ । तत् । आ॒दि॒त्याः॒ । जुह्व॑तः । ह॒विः । येन॑ । वस्यः॑ । अ॒नशा॑महै ॥
स्वर रहित मन्त्र
वयं तद्व: सम्राज आ वृणीमहे पुत्रो न बहुपाय्यम् । अश्याम तदादित्या जुह्वतो हविर्येन वस्योऽनशामहै ॥
स्वर रहित पद पाठवयम् । तत् । वः । सम्ऽराजः । आ । वृणीमहे । पुत्रः । न । बहुऽपाय्यम् । अश्याम । तत् । आदित्याः । जुह्वतः । हविः । येन । वस्यः । अनशामहै ॥ ८.२७.२२
ऋग्वेद - मण्डल » 8; सूक्त » 27; मन्त्र » 22
अष्टक » 6; अध्याय » 2; वर्ग » 34; मन्त्र » 6
अष्टक » 6; अध्याय » 2; वर्ग » 34; मन्त्र » 6
विषयः - विदुषां निकटे विनयवचनं ब्रूयात् ।
पदार्थः -
हे सम्राजः=हे सर्वेषां धर्मेण शासकाः, हे महाधिपतयो विद्वांसः ! तत्=तस्माद्धेतोः । वः=युष्माकम् । निकटे । वयमावृणीमहे । अत्र दृष्टान्तः । पुत्रः+न+बहुपाय्यम्=यथा पुत्रः पितृसमीपे । बहुभोज्यपेयादि वस्तु याचते । तद्वत् । हे आदित्याः=हे अखण्डव्रताः ! हविर्जुह्वतः=कर्माणि कुर्वन्तो वयम् । तत्प्रियं वस्तु । अश्याम=प्राप्नुयाम । येन वस्तुना । वस्यः=वसीयः=अतिशयेन वसुमत्वम् । अनशामहै= अश्नवामहै=प्राप्नुमः ॥२२ ॥