ऋग्वेद - मण्डल 8/ सूक्त 28/ मन्त्र 4
यथा॒ वश॑न्ति दे॒वास्तथेद॑स॒त्तदे॑षां॒ नकि॒रा मि॑नत् । अरा॑वा च॒न मर्त्य॑: ॥
स्वर सहित पद पाठयथा॑ । वश॑न्ति । दे॒वाः । तथा॑ । इत् । अ॒स॒त् । तत् । ए॒षा॒म् । नकिः॑ । आ । मि॒न॒त् । अरा॑वा । च॒न । मर्त्यः॑ ॥
स्वर रहित मन्त्र
यथा वशन्ति देवास्तथेदसत्तदेषां नकिरा मिनत् । अरावा चन मर्त्य: ॥
स्वर रहित पद पाठयथा । वशन्ति । देवाः । तथा । इत् । असत् । तत् । एषाम् । नकिः । आ । मिनत् । अरावा । चन । मर्त्यः ॥ ८.२८.४
ऋग्वेद - मण्डल » 8; सूक्त » 28; मन्त्र » 4
अष्टक » 6; अध्याय » 2; वर्ग » 35; मन्त्र » 4
अष्टक » 6; अध्याय » 2; वर्ग » 35; मन्त्र » 4
विषयः - कर्त्तव्यमाह ।
पदार्थः -
देवाः=सत्यसंकल्पाः=सत्यासक्ताः परोपकारिणः स्वार्थविरहिता विद्वांसो मनुष्याः । यथा+वशन्ति=यथा इच्छन्ति । तथा+इत्=तथैव । असत्=अस्ति=भवति । यद् देवा इच्छन्ति तद् भवत्येवेत्यर्थः । “वश कान्तौ” । तदेवाह−एषाम्=देवानाम् । तत्कामनम् । न किः=न कश्चिदपि । मिनत्=हिनस्ति= निवारयति । “मीङ् हिंसायाम्” लेटि रूपम् । न तथा इतरो मनुष्यो भवतीत्याह । चन=निश्चये । यताः । मर्त्यः=मरणधर्मा । चन=निश्चयेन । अरावा=अदाता भवति । स खलु मूर्खो न ददाति, न जुहोति, न तपस्यति, न च किमपि शुभमाचरति । अतः सः । असत्यसंकल्पत्वाद् देववन्न भवति ॥४ ॥