ऋग्वेद - मण्डल 8/ सूक्त 28/ मन्त्र 3
ऋषिः - मनुर्वैवस्वतः
देवता - विश्वेदेवा:
छन्दः - विराड्गायत्री
स्वरः - षड्जः
ते नो॑ गो॒पा अ॑पा॒च्यास्त उद॒क्त इ॒त्था न्य॑क् । पु॒रस्ता॒त्सर्व॑या वि॒शा ॥
स्वर सहित पद पाठते । नः॒ । गो॒पाः । अ॒पा॒च्याः । ते । उद॑क् । ते । इ॒त्था । न्य॑क् । पु॒रस्ता॑त् । सर्व॑या । वि॒शा ॥
स्वर रहित मन्त्र
ते नो गोपा अपाच्यास्त उदक्त इत्था न्यक् । पुरस्तात्सर्वया विशा ॥
स्वर रहित पद पाठते । नः । गोपाः । अपाच्याः । ते । उदक् । ते । इत्था । न्यक् । पुरस्तात् । सर्वया । विशा ॥ ८.२८.३
ऋग्वेद - मण्डल » 8; सूक्त » 28; मन्त्र » 3
अष्टक » 6; अध्याय » 2; वर्ग » 35; मन्त्र » 3
अष्टक » 6; अध्याय » 2; वर्ग » 35; मन्त्र » 3
विषयः - तदेवानुवर्तते ।
पदार्थः -
ते=पूर्वोक्ता वरुणादयो मनुष्यदेवाः । सर्वया+विशा=सर्वाभिः प्रजाभिः सह । अपाच्या=अपाची=प्रतीची=पश्चिमा दिग् । तस्या अपाच्याः प्रतीच्या दिशः । नोऽस्माकम् । गोपाः=रक्षकाः भवन्तु । ते एव । उदक्तः=उदीच्या दिशः । रक्षका भवन्तु । इत्था=अनेन प्रकारेण । दक्षिणादिदिशामपि रक्षका भवन्तु । एवम् । न्यक्=नीच्या दिशः । पुरस्तात्=प्राच्या दिशश्च । ते देवा गोपा भवन्तु ॥३ ॥