ऋग्वेद - मण्डल 8/ सूक्त 3/ मन्त्र 1
ऋषिः - मेध्यातिथिः काण्वः
देवता - इन्द्र:
छन्दः - ककुम्मतीबृहती
स्वरः - मध्यमः
पिबा॑ सु॒तस्य॑ र॒सिनो॒ मत्स्वा॑ न इन्द्र॒ गोम॑तः । आ॒पिर्नो॑ बोधि सध॒माद्यो॑ वृ॒धे॒३॒॑ऽस्माँ अ॑वन्तु ते॒ धिय॑: ॥
स्वर सहित पद पाठपिबा॑अ॑ । सु॒तस्य॑ । र॒सिनः॑ । मत्स्व॑ । नः॒ । इ॒न्द्र॒ । गोऽम॑तः । आ॒पिः । नः॒ । बो॒धि॒ । स॒ध॒ऽमाद्यः॑ । वृ॒धे॒ । अ॒स्मान् । अ॒व॒न्तु॒ । ते॒ । धियः॑ ॥
स्वर रहित मन्त्र
पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः । आपिर्नो बोधि सधमाद्यो वृधे३ऽस्माँ अवन्तु ते धिय: ॥
स्वर रहित पद पाठपिबाअ । सुतस्य । रसिनः । मत्स्व । नः । इन्द्र । गोऽमतः । आपिः । नः । बोधि । सधऽमाद्यः । वृधे । अस्मान् । अवन्तु । ते । धियः ॥ ८.३.१
ऋग्वेद - मण्डल » 8; सूक्त » 3; मन्त्र » 1
अष्टक » 5; अध्याय » 7; वर्ग » 25; मन्त्र » 1
अष्टक » 5; अध्याय » 7; वर्ग » 25; मन्त्र » 1
विषयः - पुनरिन्द्रस्य प्रार्थनामारभते ।
पदार्थः -
हे इन्द्र=इदं सर्वं पश्यतीतीन्द्रः=सर्वद्रष्टः परमात्मन् ! त्वम् ! रसिनः=रसवतो रसिकस्यानुरक्तस्य । सुतस्य=नियुक्तस्याभिषिक्तस्य । अस्माकमात्मन आशयमिति शेषः । पिब=उत्कटेच्छया पश्य=अनुगृहाण । यद्वा । यज्ञसम्बन्धिवस्तून्यनुगृहाण । तथा । गोमतः=इन्द्रियवतो । वाणीमतः स्तुतिमतो वा नोऽस्मान् । मत्स्व=मादय=आनन्दय । अत्र णिचो लोपः । पुनः । आपिः=आपयिता बन्धुभूतस्त्वम् । नो बोधि=नोऽस्मान् । बोधय=ज्ञानं विज्ञानञ्च प्रदेहि । पुनः । यतस्त्वम् । सधमाद्यः=सहमादयिता सहानन्दयिता सांसारिक- वस्तुभिर्हर्षयिताऽसि सहानन्द्यो वाऽस्माभिः । अतस्ते=तव । धियो=विज्ञानानि । वृधे=वर्धनाय=अभ्युदयाय । अस्मानवन्तु=रक्षन्तु प्राप्नुवन्तु वा ॥१ ॥