Loading...
ऋग्वेद मण्डल - 8 के सूक्त 35 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 35/ मन्त्र 1
    ऋषिः - श्यावाश्वः देवता - अश्विनौ छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    अ॒ग्निनेन्द्रे॑ण॒ वरु॑णेन॒ विष्णु॑नादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥

    स्वर सहित पद पाठ

    अ॒ग्निना॑ । इन्द्रे॑ण । वरु॑णेन । विष्णु॑ना । आ॒दि॒त्यैः । रु॒द्रैः । वसु॑ऽभिः । स॒चा॒ऽभुवा॑ । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥


    स्वर रहित मन्त्र

    अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर्वसुभिः सचाभुवा । सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥

    स्वर रहित पद पाठ

    अग्निना । इन्द्रेण । वरुणेन । विष्णुना । आदित्यैः । रुद्रैः । वसुऽभिः । सचाऽभुवा । सऽजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥ ८.३५.१

    ऋग्वेद - मण्डल » 8; सूक्त » 35; मन्त्र » 1
    अष्टक » 6; अध्याय » 3; वर्ग » 14; मन्त्र » 1

    पदार्थः -
    अत्र पुण्यात्मनो राजमण्डलस्यात्मानमुद्दिश्य वर्णनं प्रदर्श्यते । हे अश्विना=अश्विनौ पुण्यकृतौ राजानौ । युवाम् । अग्निना=अग्निहोत्रादिबशुभकर्मणा । सचाभुवा सहभुवौ सार्थमेव जातौ स्थः । यद्वा नित्यत्वाज्जीवस्य अग्निना सार्धमेव युवामपि आविर्भूतौ स्थः । एवमेवाग्रेऽपि बोध्यम् । सचाभुवेति पदं प्रत्येकमग्निप्रभृतिभिः संबद्धम् । एवमेव इन्द्रेण=विद्युच्छक्त्या । वरुणेन=वरणीयेन जलसामर्थ्येन, विष्णुना=सूर्यसामर्थ्येन, आदित्यैर्द्वादशमासशक्तिभिः । रुद्रैः=एकादशप्राणशक्त्या । वसुभिरष्टवसुशक्त्या च सचाभुवा सहभुवौ स्थः । अपि च उषसा प्रभातेन तदुपलक्षितेन मार्दवेन । सूर्येण च सूर्य्योपलक्षितेन तैक्ष्ण्येन सजोषसा संगतौ भवथः । तस्मात् । सोमं=यज्ञसिद्धमानन्दप्रदं सोमरसम् । पिबतम् ॥१ ॥

    इस भाष्य को एडिट करें
    Top