ऋग्वेद - मण्डल 8/ सूक्त 38/ मन्त्र 1
य॒ज्ञस्य॒ हि स्थ ऋ॒त्विजा॒ सस्नी॒ वाजे॑षु॒ कर्म॑सु । इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥
स्वर सहित पद पाठय॒ज्ञस्य॑ । हि । स्थः । ऋ॒त्विजा॑ । सस्नी॒ इति॑ । वाजे॑षु । कर्म॑सु । इन्द्रा॑ग्नी॒ इति॑ । तस्य॑ । बो॒ध॒त॒म् ॥
स्वर रहित मन्त्र
यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु । इन्द्राग्नी तस्य बोधतम् ॥
स्वर रहित पद पाठयज्ञस्य । हि । स्थः । ऋत्विजा । सस्नी इति । वाजेषु । कर्मसु । इन्द्राग्नी इति । तस्य । बोधतम् ॥ ८.३८.१
ऋग्वेद - मण्डल » 8; सूक्त » 38; मन्त्र » 1
अष्टक » 6; अध्याय » 3; वर्ग » 20; मन्त्र » 1
अष्टक » 6; अध्याय » 3; वर्ग » 20; मन्त्र » 1
विषयः - अथ ब्रह्मक्षत्रकर्माणि निर्दिश्यन्ते ।
पदार्थः -
हे इन्द्राग्नी=हे क्षत्रियब्राह्मणौ यद्वा राजदूतौ ! इन्द्रः क्षत्रियोपलक्षको राज्यशासकत्वात् । अग्निर्ब्राह्मणोपलक्षकः कर्मशासकत्वात् । तस्य+बोधतम्=तदेतद्वस्तु । बोधतम्=युवां जानीतम् । हि=यतः । युवं यज्ञस्य । ऋत्विजा=ऋत्विजौ स्थः । पुनः सस्नी=शुद्धौ । पुनः वाजेषु कर्मसु=युद्धसम्बन्धिषु ज्ञानसम्बन्धिषु च कर्मसु । अधिकृतौ स्थः ॥१ ॥