Loading...
ऋग्वेद मण्डल - 8 के सूक्त 39 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 39/ मन्त्र 1
    ऋषिः - नाभाकः काण्वः देवता - अग्निः छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    अ॒ग्निम॑स्तोष्यृ॒ग्मिय॑म॒ग्निमी॒ळा य॒जध्यै॑ । अ॒ग्निर्दे॒वाँ अ॑नक्तु न उ॒भे हि वि॒दथे॑ क॒विर॒न्तश्चर॑ति दू॒त्यं१॒॑ नभ॑न्तामन्य॒के स॑मे ॥

    स्वर सहित पद पाठ

    अ॒ग्निम् । अ॒स्तो॒षि॒ । ऋ॒ग्मिय॑म् । अ॒ग्निम् । ई॒ळा । य॒जध्यै॑ । अ॒ग्निः । दे॒वान् । अ॒न॒क्तु॒ । नः॒ । उ॒भे इति॑ । हि । वि॒दथे॒ इति॑ । क॒विः । अ॒न्तरिति॑ । चर॑ति । दू॒त्य॑म् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥


    स्वर रहित मन्त्र

    अग्निमस्तोष्यृग्मियमग्निमीळा यजध्यै । अग्निर्देवाँ अनक्तु न उभे हि विदथे कविरन्तश्चरति दूत्यं१ नभन्तामन्यके समे ॥

    स्वर रहित पद पाठ

    अग्निम् । अस्तोषि । ऋग्मियम् । अग्निम् । ईळा । यजध्यै । अग्निः । देवान् । अनक्तु । नः । उभे इति । हि । विदथे इति । कविः । अन्तरिति । चरति । दूत्यम् । नभन्ताम् । अन्यके । समे ॥ ८.३९.१

    ऋग्वेद - मण्डल » 8; सूक्त » 39; मन्त्र » 1
    अष्टक » 6; अध्याय » 3; वर्ग » 22; मन्त्र » 1

    पदार्थः -
    अहम्=अग्निम्=सर्वशक्तिप्रदमीश्वरम् । अस्तोषि=स्तौमि । पुनः=ऋग्मिम्=ऋग्भिरर्चनीयम् । अग्निम् । यजध्वै=यष्टम् । ईडा=स्तुत्या स्तौमि । सोऽग्निः । नः=अस्माकम् । विदथे=यज्ञगृहे । देवान्=उपस्थितान् मान्यान् । आनक्तु=स्वस्वकर्मणि प्रेरयतु । हि=यतः । स कविः=सर्वज्ञोऽस्ति । तथा । उभे=द्यावापृथिव्यौ अन्तर्मध्ये । दूत्यम्=दूतकर्म । चरति । तत्कृपया । अन्यके=शत्रवोऽपि । समे=सर्वे । नभन्ताम्=विनश्यन्तु । नभतिर्हिंसाकर्मा ॥१ ॥

    इस भाष्य को एडिट करें
    Top