ऋग्वेद - मण्डल 8/ सूक्त 4/ मन्त्र 3
यथा॑ गौ॒रो अ॒पा कृ॒तं तृष्य॒न्नेत्यवेरि॑णम् । आ॒पि॒त्वे न॑: प्रपि॒त्वे तूय॒मा ग॑हि॒ कण्वे॑षु॒ सु सचा॒ पिब॑ ॥
स्वर सहित पद पाठयथा॑ । गौ॒रः । अ॒पा । कृ॒तम् । तृष्य॑न् । एति॑ । अव॑ । इरि॑णम् । आ॒ऽपि॒त्वे । नः॒ । प्र॒ऽपि॒त्वे । तूय॑म् । आ । ग॒हि॒ । कण्वे॑षु । सु । सचा॑ । पिब॑ ॥
स्वर रहित मन्त्र
यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् । आपित्वे न: प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥
स्वर रहित पद पाठयथा । गौरः । अपा । कृतम् । तृष्यन् । एति । अव । इरिणम् । आऽपित्वे । नः । प्रऽपित्वे । तूयम् । आ । गहि । कण्वेषु । सु । सचा । पिब ॥ ८.४.३
ऋग्वेद - मण्डल » 8; सूक्त » 4; मन्त्र » 3
अष्टक » 5; अध्याय » 7; वर्ग » 30; मन्त्र » 3
अष्टक » 5; अध्याय » 7; वर्ग » 30; मन्त्र » 3
विषयः - अनुग्रहायेन्द्रः प्रार्थ्यते ।
पदार्थः -
गौरः=गौरमृगो गवयः । तृष्यन्=पिपासन्=तृषार्त्तः सन् । यथा=येन प्रकारेण । अपा=अद्भिर्जलैः । अत्र व्यत्ययेनैकवचनम् । कृतम्=पूर्णं कृतम् । इरिणम्=जलाशयम् । अवैति=जानाति । अभिमुखः सन् शीघ्रं गच्छति च । तथा । हे इन्द्र ! त्वमपि । आपित्वे=बन्धुत्वे । त्वया सह । प्रपित्वे=प्राप्ते सति । नः=अस्मान् ग्रन्थप्रणेतॄन् । तूयम्=शीघ्रम् । आगहि=आगच्छ=प्राप्नुहि । तथा । कण्वेषु=ग्रन्थप्रणेतृषु । सचा=सहैव । सु=सुष्ठु । पिब=अनुगृहाण ॥३ ॥