Loading...
ऋग्वेद मण्डल - 8 के सूक्त 41 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 41/ मन्त्र 1
    ऋषिः - नाभाकः काण्वः देवता - वरुणः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    अ॒स्मा ऊ॒ षु प्रभू॑तये॒ वरु॑णाय म॒रुद्भ्योऽर्चा॑ वि॒दुष्ट॑रेभ्यः । यो धी॒ता मानु॑षाणां प॒श्वो गा इ॑व॒ रक्ष॑ति॒ नभ॑न्तामन्य॒के स॑मे ॥

    स्वर सहित पद पाठ

    अस्मै । ऊँ॒ इति॑ । सु । प्रऽभू॑तये । वरु॑णाय । म॒रुत्ऽभ्यः॑ । अर्च॑ । वि॒दुःऽत॑रेभ्यः । यः । धी॒ता । मानु॑षाणाम् । प॒श्वः । गाःऽइ॑व । रक्ष॑ति । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥


    स्वर रहित मन्त्र

    अस्मा ऊ षु प्रभूतये वरुणाय मरुद्भ्योऽर्चा विदुष्टरेभ्यः । यो धीता मानुषाणां पश्वो गा इव रक्षति नभन्तामन्यके समे ॥

    स्वर रहित पद पाठ

    अस्मै । ऊँ इति । सु । प्रऽभूतये । वरुणाय । मरुत्ऽभ्यः । अर्च । विदुःऽतरेभ्यः । यः । धीता । मानुषाणाम् । पश्वः । गाःऽइव । रक्षति । नभन्ताम् । अन्यके । समे ॥ ८.४१.१

    ऋग्वेद - मण्डल » 8; सूक्त » 41; मन्त्र » 1
    अष्टक » 6; अध्याय » 3; वर्ग » 26; मन्त्र » 1

    पदार्थः -
    हे मनुष्य ! प्रभूतये=प्रभूतिरभ्युदयः कल्याणञ्च । तदर्थम् । अस्मै=प्रत्यक्षवत् प्रसिद्धाय सर्वत्र भासमानाय । वरुणाय । वरुणाय=सर्वैर्वरणीयाय परमात्मने । तथा । विदुष्टरेभ्यः= विद्वत्तरेभ्यश्च । मरुद्भ्यो मितभाषिभ्यो योगिजनेभ्यश्च । उ=निश्चयेन । सुअर्च=सुपूजय । यो वरुणः । धीता=कर्मणा । मनुष्याणाम् । पश्वः=पशून् । गा इव=पृथिवीः इव । रक्षति । तेन रक्षणेन । अस्माकम् । समे=सर्वे । अन्यके=अन्ये शत्रवः । नभन्ताम्=नश्यन्तु ॥१ ॥

    इस भाष्य को एडिट करें
    Top