ऋग्वेद - मण्डल 8/ सूक्त 42/ मन्त्र 5
ऋषिः - नाभाकः काण्वः अर्चानाना वा
देवता - अश्विनौ
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
यथा॑ वा॒मत्रि॑रश्विना गी॒र्भिर्विप्रो॒ अजो॑हवीत् । नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥
स्वर सहित पद पाठयथा॑ । वा॒म् । अत्रिः॑ । अ॒श्वि॒ना॒ । गीः॒ऽभिः । विप्रः॑ । अजो॑हवीत् । नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
स्वर रहित मन्त्र
यथा वामत्रिरश्विना गीर्भिर्विप्रो अजोहवीत् । नासत्या सोमपीतये नभन्तामन्यके समे ॥
स्वर रहित पद पाठयथा । वाम् । अत्रिः । अश्विना । गीःऽभिः । विप्रः । अजोहवीत् । नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥ ८.४२.५
ऋग्वेद - मण्डल » 8; सूक्त » 42; मन्त्र » 5
अष्टक » 6; अध्याय » 3; वर्ग » 28; मन्त्र » 5
अष्टक » 6; अध्याय » 3; वर्ग » 28; मन्त्र » 5
विषयः - N/A
पदार्थः -
हे नासत्या=नासत्यौ । अश्विना=अश्विनौ । ! अत्रिः=अत्रः= त्राणरहितः । विप्रः=मेधावी । गीर्भिः=स्ववचनैः । यथा । वां=युवाम् । सोमपीतये । अजोहवीत्=आह्वयति । तथा अन्येऽपि युवाम् । आह्वयन्तु । येन । समे । अन्यके=अन्ये । नभन्ताम्=नश्यन्तु ॥५ ॥