Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 44/ मन्त्र 29
    ऋषिः - विरूप आङ्गिरसः देवता - अग्निः छन्दः - ककुम्मतीगायत्री स्वरः - षड्जः

    धीरो॒ ह्यस्य॑द्म॒सद्विप्रो॒ न जागृ॑वि॒: सदा॑ । अग्ने॑ दी॒दय॑सि॒ द्यवि॑ ॥

    स्वर सहित पद पाठ

    धीरः॑ । हि । असि॑ । अ॒द्म॒ऽसत् । विप्रः॑ । न । जागृ॑विः । सदा॑ । अग्ने॑ । दी॒दय॑सि । द्यवि॑ ॥


    स्वर रहित मन्त्र

    धीरो ह्यस्यद्मसद्विप्रो न जागृवि: सदा । अग्ने दीदयसि द्यवि ॥

    स्वर रहित पद पाठ

    धीरः । हि । असि । अद्मऽसत् । विप्रः । न । जागृविः । सदा । अग्ने । दीदयसि । द्यवि ॥ ८.४४.२९

    ऋग्वेद - मण्डल » 8; सूक्त » 44; मन्त्र » 29
    अष्टक » 6; अध्याय » 3; वर्ग » 41; मन्त्र » 4

    पदार्थः -
    हे अग्ने=सर्वगत देव ! हि=यस्माद्धेतोः । त्वं धीरोऽसि । त्वम् । अद्म=सदसि=सर्वेषां हृदयसद्मनिवासी वर्तसे । न चार्थः । पुनः । विप्रः=विशेषेण मनोरथप्रपूरकः । पुनः । सदा जागृविः=भुवनानां हितकरणे जागरूकः । हे देव ! ईदृशस्त्वम् । द्यवि=द्योतनात्मके स्थाने । दीदयसि=दीप्यसे अतस्त्वां स्तौमि ॥२९ ॥

    इस भाष्य को एडिट करें
    Top