ऋग्वेद - मण्डल 8/ सूक्त 44/ मन्त्र 30
पु॒राग्ने॑ दुरि॒तेभ्य॑: पु॒रा मृ॒ध्रेभ्य॑: कवे । प्र ण॒ आयु॑र्वसो तिर ॥
स्वर सहित पद पाठपु॒रा । अ॒ग्ने॒ । दुः॒ऽइ॒तेभ्यः॑ । पु॒रा । मृ॒ध्रेभ्यः॑ । क॒वे॒ । प्र । नः॒ । आयुः॑ । व॒सो॒ इति॑ । ति॒र॒ ॥
स्वर रहित मन्त्र
पुराग्ने दुरितेभ्य: पुरा मृध्रेभ्य: कवे । प्र ण आयुर्वसो तिर ॥
स्वर रहित पद पाठपुरा । अग्ने । दुःऽइतेभ्यः । पुरा । मृध्रेभ्यः । कवे । प्र । नः । आयुः । वसो इति । तिर ॥ ८.४४.३०
ऋग्वेद - मण्डल » 8; सूक्त » 44; मन्त्र » 30
अष्टक » 6; अध्याय » 3; वर्ग » 41; मन्त्र » 5
अष्टक » 6; अध्याय » 3; वर्ग » 41; मन्त्र » 5
विषयः - N/A
पदार्थः -
हे वसो=वासक ! अग्ने=सर्वगतदेव ! हे कवे=महाज्ञानिन् ! दुरितेभ्यः=पापेभ्यः । पुरा=प्रागेव । पुनः । मृध्रेभ्यः=हिंसकेभ्यः । पुरा । यदा दुरितानि हिंसकाश्चास्मान् हिंसितुमुद्युञ्जते । ततः प्रागेवेत्यर्थः । नोऽस्माकमायुः । प्र तिर=प्रवर्धय ॥३० ॥