ऋग्वेद - मण्डल 8/ सूक्त 45/ मन्त्र 3
अयु॑द्ध॒ इद्यु॒धा वृतं॒ शूर॒ आज॑ति॒ सत्व॑भिः । येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥
स्वर सहित पद पाठअयु॑द्धः । इत् । यु॒धा । वृत॑म् । शूरः॑ । आ । अ॒ज॒ति॒ । सत्व॑ऽभिः । येषा॑म् । इन्द्रः॑ । युवा॑ । सखा॑ ॥
स्वर रहित मन्त्र
अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः । येषामिन्द्रो युवा सखा ॥
स्वर रहित पद पाठअयुद्धः । इत् । युधा । वृतम् । शूरः । आ । अजति । सत्वऽभिः । येषाम् । इन्द्रः । युवा । सखा ॥ ८.४५.३
ऋग्वेद - मण्डल » 8; सूक्त » 45; मन्त्र » 3
अष्टक » 6; अध्याय » 3; वर्ग » 42; मन्त्र » 3
अष्टक » 6; अध्याय » 3; वर्ग » 42; मन्त्र » 3
विषयः - अनया फलमादिशति ।
पदार्थः -
अग्निहोत्रेश्वरोपासनासहितः पुरुषः । अयुद्ध इत्=अयोद्धा अपि । शूरो वीरो भूत्वा । सत्त्वभिः=स्वकीयैरात्मबलैरेव । युधा=योद्धृगणैः । वृतमावृतमपि । शत्रुम् । अजति=प्रक्षिपति=दूरीकरोति । येषामिन्द्रो युवा सखा ॥३ ॥