Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 45/ मन्त्र 2
    ऋषिः - त्रिशोकः काण्वः देवता - इन्द्र: छन्दः - निचृद्गायत्री स्वरः - षड्जः

    बृ॒हन्निदि॒ध्म ए॑षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरु॑: । येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥

    स्वर सहित पद पाठ

    बृ॒हन् । इत् । इ॒ध्मः । ए॒षा॒म् । भूरि॑ । श॒स्तम् । पृ॒थु । स्वरुः॑ । येषा॑म् । इन्द्रः॑ । युवा॑ । सखा॑ ॥


    स्वर रहित मन्त्र

    बृहन्निदिध्म एषां भूरि शस्तं पृथुः स्वरु: । येषामिन्द्रो युवा सखा ॥

    स्वर रहित पद पाठ

    बृहन् । इत् । इध्मः । एषाम् । भूरि । शस्तम् । पृथु । स्वरुः । येषाम् । इन्द्रः । युवा । सखा ॥ ८.४५.२

    ऋग्वेद - मण्डल » 8; सूक्त » 45; मन्त्र » 2
    अष्टक » 6; अध्याय » 3; वर्ग » 42; मन्त्र » 2

    पदार्थः -
    येषामेषां मनुष्याणाम् । इध्मः=अग्निहोत्रोपकरणम् । बृहन् इत्=बृहन्नेव । येषाम् । भूरि=बहु च । शस्तं=स्तोत्रम् । स्वरुः=सदाचाररूपो वज्रः । यद्वा यूपखण्डः । पृथुरस्ति । येषाञ्च । इन्द्र आत्मा । युवा सखा च । ते धन्याः ॥२ ॥

    इस भाष्य को एडिट करें
    Top