Loading...
ऋग्वेद मण्डल - 8 के सूक्त 46 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 46/ मन्त्र 26
    ऋषिः - वशोऽश्व्यः देवता - वायु: छन्दः - स्वराड्बृहती स्वरः - मध्यमः

    यो अश्वे॑भि॒र्वह॑ते॒ वस्त॑ उ॒स्रास्त्रिः स॒प्त स॑प्तती॒नाम् । ए॒भिः सोमे॑भिः सोम॒सुद्भि॑: सोमपा दा॒नाय॑ शुक्रपूतपाः ॥

    स्वर सहित पद पाठ

    यः । अश्वे॑भिः । वह॑ते । वस्ते॑ । उ॒स्राः । त्रिः । स॒प्त । स॒प्त॒ती॒नाम् । ए॒भिः । सोमे॑भिः । सो॒म॒सुत्ऽभिः॑ । सो॒म॒ऽपाः॒ । दा॒नाय॑ । शु॒क्र॒पू॒त॒ऽपाः॒ ॥


    स्वर रहित मन्त्र

    यो अश्वेभिर्वहते वस्त उस्रास्त्रिः सप्त सप्ततीनाम् । एभिः सोमेभिः सोमसुद्भि: सोमपा दानाय शुक्रपूतपाः ॥

    स्वर रहित पद पाठ

    यः । अश्वेभिः । वहते । वस्ते । उस्राः । त्रिः । सप्त । सप्ततीनाम् । एभिः । सोमेभिः । सोमसुत्ऽभिः । सोमऽपाः । दानाय । शुक्रपूतऽपाः ॥ ८.४६.२६

    ऋग्वेद - मण्डल » 8; सूक्त » 46; मन्त्र » 26
    अष्टक » 6; अध्याय » 4; वर्ग » 6; मन्त्र » 1

    पदार्थः -
    य ईशः । अश्वेभिः=अश्वैः संसारैः सह । वहते=सर्वाणि कार्य्याणि सम्पादयति । यश्च उस्रा=इन्द्रियाणि । वस्ते । व्याप्य तिष्ठति । तासां गवां सख्या=त्रिःसप्त सप्तीनाम् । पुनः । एभिः=सोमेभिः सोमप्रभृतिभिरोषधीभिः । पुनः । सोमसुद्भिः=सोमसम्पादकजीवैश्च सह स वहते । हे सोमपाः=हे सोमरक्षक ! हे शुक्रपूतपाः=शुक्राणां शुचीनाम् । पूतानां पवित्राणां रक्षक ! त्वम् । दानाय । इमम् । रचनां करोषि ॥२६ ॥

    इस भाष्य को एडिट करें
    Top