ऋग्वेद - मण्डल 8/ सूक्त 47/ मन्त्र 1
महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्र॑ दा॒शुषे॑ । यमा॑दित्या अ॒भि द्रु॒हो रक्ष॑था॒ नेम॒घं न॑शदने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥
स्वर सहित पद पाठमहि॑ । वः॒ । म॒ह॒ताम् । अवः॑ । वरु॑ण । मित्र॑ । दा॒शुषे॑ । यम् । आ॒दि॒त्याः॒ । अ॒भि । द्रु॒हः । रक्ष॑थ । न । ई॒म् । अ॒घम् । न॒श॒त् । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥
स्वर रहित मन्त्र
महि वो महतामवो वरुण मित्र दाशुषे । यमादित्या अभि द्रुहो रक्षथा नेमघं नशदनेहसो व ऊतय: सुतयो व ऊतय: ॥
स्वर रहित पद पाठमहि । वः । महताम् । अवः । वरुण । मित्र । दाशुषे । यम् । आदित्याः । अभि । द्रुहः । रक्षथ । न । ईम् । अघम् । नशत् । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ ८.४७.१
ऋग्वेद - मण्डल » 8; सूक्त » 47; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 7; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 7; मन्त्र » 1
विषयः - श्रेष्ठनरा अत्र स्तूयन्ते ।
पदार्थः -
हे वरुण=वरणीय राजप्रतिनिधे ! हे मित्र=ब्राह्मणप्रतिनिधे । हे अन्य श्रेष्ठमानवाः ! महताम् । वो युष्माकम् । दाशुषे=दाश्वांसं जनं प्रति । अवः=रक्षणम् । महि=महत् । तथा च हे आदित्याः=सभाध्यक्षाः ! अदितेः सभायाः । अध्यक्षा इत्यादित्याः । यं पुरुषम् । यूयम् । द्रुहः=द्रोहकारिणः सकाशात् । अभिरक्ष च । ईम्=एनम् । अघम् । पापम् । न नशत्=न प्राप्नोति यतो यो युष्माकम् ऊतयो रक्षणानि । अनेहसः=अपापानि अनुपद्रवाणि । ऊतयो रक्षणानि । सु ऊतयः=शोभनरक्षणानि । वो युष्माकमूतयोऽनेहसः । द्विरुक्तिरादरार्था ॥१ ॥