Loading...
ऋग्वेद मण्डल - 8 के सूक्त 46 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 46/ मन्त्र 3
    ऋषिः - वशोऽश्व्यः देवता - इन्द्र: छन्दः - गायत्री स्वरः - षड्जः

    आ यस्य॑ ते महि॒मानं॒ शत॑मूते॒ शत॑क्रतो । गी॒र्भिर्गृ॒णन्ति॑ का॒रव॑: ॥

    स्वर सहित पद पाठ

    आ । यस्य॑ । ते॒ । म॒हि॒मान॑म् । शत॑म्ऽऊते । शत॑क्रतो॒ इति॒ शत॑ऽक्रतो । गीः॒ऽभिः । गृ॒णन्ति॑ । का॒रवः॑ ॥


    स्वर रहित मन्त्र

    आ यस्य ते महिमानं शतमूते शतक्रतो । गीर्भिर्गृणन्ति कारव: ॥

    स्वर रहित पद पाठ

    आ । यस्य । ते । महिमानम् । शतम्ऽऊते । शतक्रतो इति शतऽक्रतो । गीःऽभिः । गृणन्ति । कारवः ॥ ८.४६.३

    ऋग्वेद - मण्डल » 8; सूक्त » 46; मन्त्र » 3
    अष्टक » 6; अध्याय » 4; वर्ग » 1; मन्त्र » 3

    पदार्थः -
    हे शतमूते ! शतमनन्तम् ऊतयो रक्षा यस्य स शतमूतिः तस्य सम्बोधने । हे शतक्रतो भगवन् ! यस्य ते महिमानम् । कारवः=कर्त्तारः स्तोत्राणाम् । गीर्भिः=वचनैः । गृणन्ति=स्तुवन्ति ॥३ ॥

    इस भाष्य को एडिट करें
    Top