Loading...
ऋग्वेद मण्डल - 8 के सूक्त 46 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 46/ मन्त्र 2
    ऋषिः - वशोऽश्व्यः देवता - इन्द्र: छन्दः - विराड्गायत्री स्वरः - षड्जः

    त्वां हि स॒त्यम॑द्रिवो वि॒द्म दा॒तार॑मि॒षाम् । वि॒द्म दा॒तारं॑ रयी॒णाम् ॥

    स्वर सहित पद पाठ

    त्वाम् । हि । स॒त्यम् । अ॒द्रि॒ऽवः॒ । वि॒द्म । दा॒तार॑म् । इ॒षाम् । वि॒द्म । दा॒तार॑म् । र॒यी॒णाम् ॥


    स्वर रहित मन्त्र

    त्वां हि सत्यमद्रिवो विद्म दातारमिषाम् । विद्म दातारं रयीणाम् ॥

    स्वर रहित पद पाठ

    त्वाम् । हि । सत्यम् । अद्रिऽवः । विद्म । दातारम् । इषाम् । विद्म । दातारम् । रयीणाम् ॥ ८.४६.२

    ऋग्वेद - मण्डल » 8; सूक्त » 46; मन्त्र » 2
    अष्टक » 6; अध्याय » 4; वर्ग » 1; मन्त्र » 2

    पदार्थः -
    हे अद्रिवः=दण्डधारिन् ईश ! त्वां हि । सत्यं=निश्चयम् इषामन्नानां दातारं विद्म । तथा रयीणां धनानां दातारम् । विद्म=जानीमः ॥२ ॥

    इस भाष्य को एडिट करें
    Top