ऋग्वेद - मण्डल 8/ सूक्त 6/ मन्त्र 2
प्र॒जामृ॒तस्य॒ पिप्र॑त॒: प्र यद्भर॑न्त॒ वह्न॑यः । विप्रा॑ ऋ॒तस्य॒ वाह॑सा ॥
स्वर सहित पद पाठप्र॒ऽजाम् । ऋ॒तस्य॑ । पिप्र॑तः । प्र । यत् । भर॑न्त । वह्न॑यः । विप्राः॑ । ऋ॒तस्य॑ । वाह॑सा ॥
स्वर रहित मन्त्र
प्रजामृतस्य पिप्रत: प्र यद्भरन्त वह्नयः । विप्रा ऋतस्य वाहसा ॥
स्वर रहित पद पाठप्रऽजाम् । ऋतस्य । पिप्रतः । प्र । यत् । भरन्त । वह्नयः । विप्राः । ऋतस्य । वाहसा ॥ ८.६.२
ऋग्वेद - मण्डल » 8; सूक्त » 6; मन्त्र » 2
अष्टक » 5; अध्याय » 8; वर्ग » 9; मन्त्र » 2
अष्टक » 5; अध्याय » 8; वर्ग » 9; मन्त्र » 2
विषयः - पुनस्तमर्थमाह ।
पदार्थः -
हे इन्द्र ! वह्नयः=जगद्वोढारः सूर्य्याग्निप्रभृतयो देवाः । ऋतस्य=सत्यस्य तव । प्रजाम्=सृष्टिरूपाम् । पिप्रतः=प्रपूरन्तः । यद् । प्रभरन्त=प्रभरन्ति प्रकर्षेण पोषयन्ति सा तवैव शक्तिरस्ति । तथा । विप्राः=मेधाविनो जनाः । ऋतस्य=सत्यस्य । वाहसा=वाहनेन यत् कालं यापयन्ति सोऽपि हे इन्द्र ! तवैव महिमाऽस्ति ॥२ ॥