Loading...
ऋग्वेद मण्डल - 8 के सूक्त 62 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 62/ मन्त्र 1
    ऋषिः - प्रगाथः काण्वः देवता - इन्द्र: छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    प्रो अ॑स्मा॒ उप॑स्तुतिं॒ भर॑ता॒ यज्जुजो॑षति । उ॒क्थैरिन्द्र॑स्य॒ माहि॑नं॒ वयो॑ वर्धन्ति सो॒मिनो॑ भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥

    स्वर सहित पद पाठ

    प्रो इति॑ । अ॒स्मै॒ । उप॑ऽस्तुति॑म् । भर॑त । यत् । जुजो॑षति । उ॒क्थैः । इन्द्र॑स्य । माहि॑नम् । वयः॑ । व॒र्ध॒न्ति॒ । सो॒मिनः॑ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥


    स्वर रहित मन्त्र

    प्रो अस्मा उपस्तुतिं भरता यज्जुजोषति । उक्थैरिन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातय: ॥

    स्वर रहित पद पाठ

    प्रो इति । अस्मै । उपऽस्तुतिम् । भरत । यत् । जुजोषति । उक्थैः । इन्द्रस्य । माहिनम् । वयः । वर्धन्ति । सोमिनः । भद्राः । इन्द्रस्य । रातयः ॥ ८.६२.१

    ऋग्वेद - मण्डल » 8; सूक्त » 62; मन्त्र » 1
    अष्टक » 6; अध्याय » 4; वर्ग » 40; मन्त्र » 1

    पदार्थः -
    हे मनुष्याः ! अस्मै=परमात्मवाचिने इन्द्राय । उपस्तुतिम् । प्रो भरत=प्रकर्षेण कुरुत । यद्=यश्चेन्द्रस्तां श्रुत्वा । जुजोषति=प्रसीदति । हे जन्तवः ! सोमिनः= सम्पूर्णजगदुत्पादकस्य इन्द्रस्य । माहिनं+वयः= महत्त्वप्रतिपादकं सामर्थ्यम् । अन्ये विद्वांसः । वर्धन्ति=वर्धयन्ति । यत इन्द्रस्य । रातयः=दानानि । भद्राः=मङ्गलमय्यः सन्ति ॥१ ॥

    इस भाष्य को एडिट करें
    Top