ऋग्वेद - मण्डल 8/ सूक्त 66/ मन्त्र 2
न यं दु॒ध्रा वर॑न्ते॒ न स्थि॒रा मुरो॒ मदे॑ सुशि॒प्रमन्ध॑सः । य आ॒दृत्या॑ शशमा॒नाय॑ सुन्व॒ते दाता॑ जरि॒त्र उ॒क्थ्य॑म् ॥
स्वर सहित पद पाठन । यम् । दु॒ध्राः । वर॑न्ते । न । स्थि॒राः । मुरः॑ । मदे॑ । सु॒ऽशि॒प्रम् । अन्ध॑सः । यः । आ॒ऽदृत्य॑ । श॒श॒मा॒नाय॑ । सु॒न्व॒ते । दाता॑ । ज॒रि॒त्रे । उ॒क्थ्य॑म् ॥
स्वर रहित मन्त्र
न यं दुध्रा वरन्ते न स्थिरा मुरो मदे सुशिप्रमन्धसः । य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥
स्वर रहित पद पाठन । यम् । दुध्राः । वरन्ते । न । स्थिराः । मुरः । मदे । सुऽशिप्रम् । अन्धसः । यः । आऽदृत्य । शशमानाय । सुन्वते । दाता । जरित्रे । उक्थ्यम् ॥ ८.६६.२
ऋग्वेद - मण्डल » 8; सूक्त » 66; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 48; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 48; मन्त्र » 2
विषयः - ईशः स्वतन्त्रः कर्तास्तीत्यनया दर्शयति ।
पदार्थः -
हे मनुष्याः । अन्धसः+मदे=धनस्य मदे=धनं दातुमित्यर्थः । यमीशम् । दुध्राः=दुर्धराः । न+वरन्ते= निवारयितुं न शक्नुवन्ति । स्थिराः+मुरः=मुरा मर्त्या अपि न वरन्ते । कीदृशम् । सुशिप्रम्=शिष्टजनानां सुपूरकम् । यश्च । आदृत्य=आदरं कृत्वा श्रद्धया सह । शशमानाय=तमेव प्रशंसमानाय । सुन्वते=शुभकर्मसु आसक्ताय । जरित्रे=स्तुतिकर्त्रे । उक्थ्यम्=वक्तव्यं वचनम् । दाता भवति ॥२ ॥