Loading...
ऋग्वेद मण्डल - 8 के सूक्त 67 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 67/ मन्त्र 20
    ऋषिः - मत्स्यः साम्मदो मान्यो वा मैत्रावरुणिर्बहवो वा मत्स्या जालनध्दाः देवता - आदित्याः छन्दः - गायत्री स्वरः - षड्जः

    मा नो॑ हे॒तिर्वि॒वस्व॑त॒ आदि॑त्याः कृ॒त्रिमा॒ शरु॑: । पु॒रा नु ज॒रसो॑ वधीत् ॥

    स्वर सहित पद पाठ

    मा । नः॒ । हे॒तिः । वि॒वस्व॑तः । आदि॑त्याः । कृ॒त्रिमा॑ । शरुः॑ । पु॒रा । नु । ज॒रसः॑ । व॒धी॒त् ॥


    स्वर रहित मन्त्र

    मा नो हेतिर्विवस्वत आदित्याः कृत्रिमा शरु: । पुरा नु जरसो वधीत् ॥

    स्वर रहित पद पाठ

    मा । नः । हेतिः । विवस्वतः । आदित्याः । कृत्रिमा । शरुः । पुरा । नु । जरसः । वधीत् ॥ ८.६७.२०

    ऋग्वेद - मण्डल » 8; सूक्त » 67; मन्त्र » 20
    अष्टक » 6; अध्याय » 4; वर्ग » 54; मन्त्र » 5

    पदार्थः -
    हे आदित्याः=सभासदः ! यूयं तादृशं प्रबन्धं रचयत । येन । नः=अस्मान् । जरसः=जरायाः । पुरा नु=पूर्वं हि । विवस्वतः=कालस्य । हेतिरायुधम् । मा वधीत् । कीदृशी हेतिः । कृत्रिमा=क्रियया निर्वृत्ता । पुनः । शरुः=हिंसिका ॥२० ॥

    इस भाष्य को एडिट करें
    Top