ऋग्वेद - मण्डल 8/ सूक्त 67/ मन्त्र 21
ऋषिः - मत्स्यः साम्मदो मान्यो वा मैत्रावरुणिर्बहवो वा मत्स्या जालनध्दाः
देवता - आदित्याः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
वि षु द्वेषो॒ व्यं॑ह॒तिमादि॑त्यासो॒ वि संहि॑तम् । विष्व॒ग्वि वृ॑हता॒ रप॑: ॥
स्वर सहित पद पाठवि । सु । द्वेषः॑ । वि । अं॒ह॒तिम् । आदि॑त्यासः । वि । सम्ऽहि॑तम् । विष्व॑क् । वि । वृ॒ह॒त॒ । रपः॑ ॥
स्वर रहित मन्त्र
वि षु द्वेषो व्यंहतिमादित्यासो वि संहितम् । विष्वग्वि वृहता रप: ॥
स्वर रहित पद पाठवि । सु । द्वेषः । वि । अंहतिम् । आदित्यासः । वि । सम्ऽहितम् । विष्वक् । वि । वृहत । रपः ॥ ८.६७.२१
ऋग्वेद - मण्डल » 8; सूक्त » 67; मन्त्र » 21
अष्टक » 6; अध्याय » 4; वर्ग » 54; मन्त्र » 6
अष्टक » 6; अध्याय » 4; वर्ग » 54; मन्त्र » 6
विषयः - N/A
पदार्थः -
हे आदित्यासः=हे आदित्याः ! विष्वग्=सर्वतः सर्वाभ्यो दिग्भ्यः । द्वेषः=द्वेष्टॄन् । सु=सुष्ठु । विबृहत=यूयमुन्मूलयत । अंहतिम्=पापम् । विबृहत । संहितम्= सम्मिलितमाक्रमणञ्च विबृहत । तथा रपः=रोगादि चित्तमालिन्यादिकञ्च । विबृहत ॥२१ ॥