साइडबार
ऋग्वेद - मण्डल 8/ सूक्त 72/ मन्त्र 1
ऋषिः - हर्यतः प्रागाथः
देवता - अग्निर्हर्वीषि वा
छन्दः - गायत्री
स्वरः - षड्जः
ह॒विष्कृ॑णुध्व॒मा ग॑मदध्व॒र्युर्व॑नते॒ पुन॑: । वि॒द्वाँ अ॑स्य प्र॒शास॑नम् ॥
स्वर सहित पद पाठह॒विः । कृ॒णु॒ध्व॒म् । आ । ग॒म॒त् । अ॒ध्व॒र्युः । व॒न॒ते॒ । पुन॒रिति॑ । वि॒द्वान् । अ॒स्य॒ । प्र॒ऽशास॑नम् ॥
स्वर रहित मन्त्र
हविष्कृणुध्वमा गमदध्वर्युर्वनते पुन: । विद्वाँ अस्य प्रशासनम् ॥
स्वर रहित पद पाठहविः । कृणुध्वम् । आ । गमत् । अध्वर्युः । वनते । पुनरिति । विद्वान् । अस्य । प्रऽशासनम् ॥ ८.७२.१
ऋग्वेद - मण्डल » 8; सूक्त » 72; मन्त्र » 1
अष्टक » 6; अध्याय » 5; वर्ग » 14; मन्त्र » 1
अष्टक » 6; अध्याय » 5; वर्ग » 14; मन्त्र » 1
विषयः - यज्ञायाऽऽनियोजयति ।
पदार्थः -
हे मनुष्याः ! यज्ञार्थम् । हविः=हविरादि सर्वं वस्तु । कृणुध्वम्=संचिनुध्वम् । जनता । आगमत्=आगच्छतु । अध्वर्युः=प्रधानयाजकः । पुनः=पुनः । पुनः । वनते=वनतां=ईशमिच्छतु । यः । अस्य यज्ञस्य प्रशासनम् । विद्वान्=जानन् वर्तते ॥१ ॥