Loading...
ऋग्वेद मण्डल - 8 के सूक्त 73 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 73/ मन्त्र 1
    ऋषिः - गोपवन आत्रेयः देवता - अश्विनौ छन्दः - गायत्री स्वरः - षड्जः

    उदी॑राथामृताय॒ते यु॒ञ्जाथा॑मश्विना॒ रथ॑म् । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

    स्वर सहित पद पाठ

    उत् । ई॒रा॒था॒म् । ऋ॒त॒ऽय॒ते । यु॒ञ्जाथा॑म् । अ॒श्वि॒ना॒ । रथ॑म् । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥


    स्वर रहित मन्त्र

    उदीराथामृतायते युञ्जाथामश्विना रथम् । अन्ति षद्भूतु वामव: ॥

    स्वर रहित पद पाठ

    उत् । ईराथाम् । ऋतऽयते । युञ्जाथाम् । अश्विना । रथम् । अन्ति । सत् । भूतु । वाम् । अवः ॥ ८.७३.१

    ऋग्वेद - मण्डल » 8; सूक्त » 73; मन्त्र » 1
    अष्टक » 6; अध्याय » 5; वर्ग » 18; मन्त्र » 1

    पदार्थः -
    हे अश्विना=अश्विनौ शोभनाश्वयुक्तौ राजसचिवौ ! युवाम् । ऋतायते=ऋतं सत्यमाचरेते । यद्वा ऋतं प्रकृतिनियमं विजानते । पुरुषाय । उदीराथाम्=उद्गच्छतम्=उत्तिष्ठतम् । रथञ्च+युज्जाथां=रथे अश्वौ योजयतम् । अनेन प्रकारेण । वां=युवयोः । अवो रक्षणम् । अन्ति=अस्माकमन्तिके सद्वर्तमानम् । भूतु=भवतु ॥१ ॥

    इस भाष्य को एडिट करें
    Top