ऋग्वेद - मण्डल 8/ सूक्त 73/ मन्त्र 2
नि॒मिष॑श्चि॒ज्जवी॑यसा॒ रथे॒ना या॑तमश्विना । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥
स्वर सहित पद पाठनि॒मिषः॑ । चि॒त् । जवी॑यसा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥
स्वर रहित मन्त्र
निमिषश्चिज्जवीयसा रथेना यातमश्विना । अन्ति षद्भूतु वामव: ॥
स्वर रहित पद पाठनिमिषः । चित् । जवीयसा । रथेन । आ । यातम् । अश्विना । अन्ति । सत् । भूतु । वाम् । अवः ॥ ८.७३.२
ऋग्वेद - मण्डल » 8; सूक्त » 73; मन्त्र » 2
अष्टक » 6; अध्याय » 5; वर्ग » 18; मन्त्र » 2
अष्टक » 6; अध्याय » 5; वर्ग » 18; मन्त्र » 2
विषयः - पुनस्तमर्थमाह ।
पदार्थः -
हे अश्विना=अश्विनौ प्रशस्ताश्वयुक्तौ ! निमिषश्चिद्= निमेषादपि क्षणादपि । ऋतायते जनाय । जवीयसा= अतिशयवेगवता । रथेन । युवाम् । आयातं=आगच्छतम् । अन्तिप्रभृति गतम् ॥२ ॥