Loading...
ऋग्वेद मण्डल - 8 के सूक्त 74 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 74/ मन्त्र 1
    ऋषिः - गोपवन आत्रेयः देवता - अग्निः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    वि॒शोवि॑शो वो॒ अति॑थिं वाज॒यन्त॑: पुरुप्रि॒यम् । अ॒ग्निं वो॒ दुर्यं॒ वच॑: स्तु॒षे शू॒षस्य॒ मन्म॑भिः ॥

    स्वर सहित पद पाठ

    वि॒शःऽवि॑सः । वः॒ । अति॑थिम् । वा॒ज॒ऽयन्तः॑ । पु॒रु॒ऽप्रि॒यम् । अ॒ग्निम् । वः॒ । दुर्य॑म् । वचः॑ । स्तु॒षे । शू॒षस्य॑ । मन्म॑ऽभिः ॥


    स्वर रहित मन्त्र

    विशोविशो वो अतिथिं वाजयन्त: पुरुप्रियम् । अग्निं वो दुर्यं वच: स्तुषे शूषस्य मन्मभिः ॥

    स्वर रहित पद पाठ

    विशःऽविसः । वः । अतिथिम् । वाजऽयन्तः । पुरुऽप्रियम् । अग्निम् । वः । दुर्यम् । वचः । स्तुषे । शूषस्य । मन्मऽभिः ॥ ८.७४.१

    ऋग्वेद - मण्डल » 8; सूक्त » 74; मन्त्र » 1
    अष्टक » 6; अध्याय » 5; वर्ग » 21; मन्त्र » 1

    पदार्थः -
    हे मनुष्याः ! वः=यूयम् । विशः+विशः=सर्वायाः प्रजायाः । अतिथिम्=पूज्यम् । पुरुप्रियं=बहुप्रियम् । अग्निम्= सर्वाधारमीशम् । वाजयन्तः सन्तः । पूजयत । वयमुपासकाः । शूषस्य=सुखस्य लाभाय । मन्मभिः=मननीयैः स्तोत्रैः । वः=युष्माकम् । वचः=वचनीयं स्तवनीयं तमीशम् । स्तुषे=स्तुमः ॥१ ॥

    इस भाष्य को एडिट करें
    Top