Loading...
ऋग्वेद मण्डल - 8 के सूक्त 74 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 74/ मन्त्र 2
    ऋषिः - गोपवन आत्रेयः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः

    यं जना॑सो ह॒विष्म॑न्तो मि॒त्रं न स॒र्पिरा॑सुतिम् । प्र॒शंस॑न्ति॒ प्रश॑स्तिभिः ॥

    स्वर सहित पद पाठ

    यम् । जना॑सः । ह॒विष्म॑न्तः । मि॒त्रम् । न । स॒र्पिःऽआ॑सुतिम् । प्र॒ऽशंस॑न्ति । प्रश॑स्तिऽभिः ॥


    स्वर रहित मन्त्र

    यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् । प्रशंसन्ति प्रशस्तिभिः ॥

    स्वर रहित पद पाठ

    यम् । जनासः । हविष्मन्तः । मित्रम् । न । सर्पिःऽआसुतिम् । प्रऽशंसन्ति । प्रशस्तिऽभिः ॥ ८.७४.२

    ऋग्वेद - मण्डल » 8; सूक्त » 74; मन्त्र » 2
    अष्टक » 6; अध्याय » 5; वर्ग » 21; मन्त्र » 2

    पदार्थः -
    हविष्मन्तः=हविरादिसाधनसंपन्नाः । जनासः=जनाः । प्रशस्तिभिः । प्रस्तवैः । सर्पिरासुतम्=घृतक्षीरादिवस्तुजनकम् । मित्रं+न=मित्रमिव यमीशं प्रशंसन्ति ॥२ ॥

    इस भाष्य को एडिट करें
    Top