Loading...
ऋग्वेद मण्डल - 8 के सूक्त 74 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 74/ मन्त्र 14
    ऋषिः - गोपवन आत्रेयः देवता - श्रुतर्वण आर्क्षस्य दानस्तुतिः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    मां च॒त्वार॑ आ॒शव॒: शवि॑ष्ठस्य द्रवि॒त्नव॑: । सु॒रथा॑सो अ॒भि प्रयो॒ वक्ष॒न्वयो॒ न तुग्र्य॑म् ॥

    स्वर सहित पद पाठ

    माम् । च॒त्वारः॑ । आ॒शवः॑ । शवि॑ष्ठस्य । द्र॒वि॒त्नवः॑ । सु॒ऽरथा॑सः । अ॒भि । प्रयः॑ । वक्ष॑न् । वयः॑ । न । तुग्र्य॑म् ॥


    स्वर रहित मन्त्र

    मां चत्वार आशव: शविष्ठस्य द्रवित्नव: । सुरथासो अभि प्रयो वक्षन्वयो न तुग्र्यम् ॥

    स्वर रहित पद पाठ

    माम् । चत्वारः । आशवः । शविष्ठस्य । द्रवित्नवः । सुऽरथासः । अभि । प्रयः । वक्षन् । वयः । न । तुग्र्यम् ॥ ८.७४.१४

    ऋग्वेद - मण्डल » 8; सूक्त » 74; मन्त्र » 14
    अष्टक » 6; अध्याय » 5; वर्ग » 23; मन्त्र » 4

    पदार्थः -
    शविष्ठस्य=परमबलवतः परमात्मनः कृपया । मामुपासकम् । आशवः=स्व-स्व-विषय-पटुतराः । द्रवित्नवः=गमनशीलाः । सुरथासः=शोभनरथाः । चत्वारः=चक्षुरादीनि चत्वारि ज्ञानेन्द्रियाणि । प्रयः=विविधसुखम् । अभि+वक्षन्= अभिवहन्ति । अत्र दृष्टान्तः । वयः+न=यथा नाविकाः । तुग्य्रं=समुद्रे निमग्नं पुरुषं तटमानयन्ति ॥१४ ॥

    इस भाष्य को एडिट करें
    Top