ऋग्वेद - मण्डल 8/ सूक्त 74/ मन्त्र 15
ऋषिः - गोपवन आत्रेयः
देवता - श्रुतर्वण आर्क्षस्य दानस्तुतिः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
स॒त्यमित्त्वा॑ महेनदि॒ परु॒ष्ण्यव॑ देदिशम् । नेमा॑पो अश्व॒दात॑र॒: शवि॑ष्ठादस्ति॒ मर्त्य॑: ॥
स्वर सहित पद पाठस॒त्यम् । इत् । त्वा॒ । म॒हे॒ऽन॒दि॒ । परु॑ष्णि । अव॑ । दे॒दि॒श॒म् । न । ई॒म् । आ॒पः॒ । अ॒श्व॒ऽदात॑रः । शवि॑ष्ठात् । अ॒स्ति॒ । मर्त्यः॑ ॥
स्वर रहित मन्त्र
सत्यमित्त्वा महेनदि परुष्ण्यव देदिशम् । नेमापो अश्वदातर: शविष्ठादस्ति मर्त्य: ॥
स्वर रहित पद पाठसत्यम् । इत् । त्वा । महेऽनदि । परुष्णि । अव । देदिशम् । न । ईम् । आपः । अश्वऽदातरः । शविष्ठात् । अस्ति । मर्त्यः ॥ ८.७४.१५
ऋग्वेद - मण्डल » 8; सूक्त » 74; मन्त्र » 15
अष्टक » 6; अध्याय » 5; वर्ग » 23; मन्त्र » 5
अष्टक » 6; अध्याय » 5; वर्ग » 23; मन्त्र » 5
विषयः - N/A
पदार्थः -
हे महेनदि=विविधशाखायुक्ते ! हे परुष्णि=पूरयित्रि बुद्धिदेव ! सत्यमित्=सत्यमेव । त्वा=त्वाम् । अव+देदिशम्= कथयामि । हे आपः=आपनशीलानि इन्द्रियाणि ! शविष्ठात् परमबलवत ईश्वरात् । अश्वदातरः=अश्वादिपशुप्रदातृतरः । मर्त्यः । नेम्=नास्ति ॥१५ ॥