Loading...
ऋग्वेद मण्डल - 8 के सूक्त 74 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 74/ मन्त्र 7
    ऋषिः - गोपवन आत्रेयः देवता - अग्निः छन्दः - पादनिचृदनुष्टुप् स्वरः - गान्धारः

    इ॒यं ते॒ नव्य॑सी म॒तिरग्ने॒ अधा॑य्य॒स्मदा । मन्द्र॒ सुजा॑त॒ सुक्र॒तोऽमू॑र॒ दस्माति॑थे ॥

    स्वर सहित पद पाठ

    इ॒यम् । ते॒ । नव्य॑सी । म॒तिः । अग्ने॑ । अधा॑यि । अ॒स्मत् । आ । मन्द्र॑ । सुऽजा॑त । सुक्र॑तो॒ इति॒ सुऽक्र॑तो । अमू॑र । दस्म॑ । अति॑थे ॥


    स्वर रहित मन्त्र

    इयं ते नव्यसी मतिरग्ने अधाय्यस्मदा । मन्द्र सुजात सुक्रतोऽमूर दस्मातिथे ॥

    स्वर रहित पद पाठ

    इयम् । ते । नव्यसी । मतिः । अग्ने । अधायि । अस्मत् । आ । मन्द्र । सुऽजात । सुक्रतो इति सुऽक्रतो । अमूर । दस्म । अतिथे ॥ ८.७४.७

    ऋग्वेद - मण्डल » 8; सूक्त » 74; मन्त्र » 7
    अष्टक » 6; अध्याय » 5; वर्ग » 22; मन्त्र » 2

    पदार्थः -
    हे मन्द्र=जीवानन्दकर ! हे सुजात=विख्यात ! हे सुक्रतो=सुकर्मन् ! हे अमूर=सर्वज्ञानमय ! हे दस्म=समस्तविघ्नविनाशक ! हे अतिथे=अतिथिवत् पूज्य ! हे अग्ने=सर्वाधार ईश ! ते=तव कृपया । अस्मत्=अस्मासु । इयं नव्यसी=नव्यतरा । मतिः+आ+अधायि=स्थापिता यया वयं त्वां स्तुमः ॥७ ॥

    इस भाष्य को एडिट करें
    Top