Loading...
ऋग्वेद मण्डल - 8 के सूक्त 74 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 74/ मन्त्र 6
    ऋषिः - गोपवन आत्रेयः देवता - अग्निः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    स॒बाधो॒ यं जना॑ इ॒मे॒३॒॑ऽग्निं ह॒व्येभि॒रीळ॑ते । जुह्वा॑नासो य॒तस्रु॑चः ॥

    स्वर सहित पद पाठ

    स॒ऽबाधः॑ । यम् । जनाः॑ । इ॒मे । अ॒ग्निम् । ह॒व्येभिः॑ । ईळ॑ते । जुह्वा॑नासः । य॒तऽस्रु॑चः ॥


    स्वर रहित मन्त्र

    सबाधो यं जना इमे३ऽग्निं हव्येभिरीळते । जुह्वानासो यतस्रुचः ॥

    स्वर रहित पद पाठ

    सऽबाधः । यम् । जनाः । इमे । अग्निम् । हव्येभिः । ईळते । जुह्वानासः । यतऽस्रुचः ॥ ८.७४.६

    ऋग्वेद - मण्डल » 8; सूक्त » 74; मन्त्र » 6
    अष्टक » 6; अध्याय » 5; वर्ग » 22; मन्त्र » 1

    पदार्थः -
    सबाधः=बाधेन सहिताः । जुह्वानासः=यागादिशुभकर्माणि साधयन्तः । यतस्रुचः=स्रुगादिसाधनसम्पन्नाः । इमे+जनाः= यमग्निम् । हव्येभिः=प्रार्थनादिभिः । ईळते=स्तुवन्ति ॥६ ॥

    इस भाष्य को एडिट करें
    Top