Loading...
ऋग्वेद मण्डल - 8 के सूक्त 75 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 75/ मन्त्र 12
    ऋषिः - विरुपः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः

    मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्ग्भार॒भृद्य॑था । सं॒वर्गं॒ सं र॒यिं ज॑य ॥

    स्वर सहित पद पाठ

    मा । नः॒ । अ॒स्मिन् । म॒हा॒ऽध॒ने । परा॑ । वर्क् । भा॒र॒ऽभृत् । य॒था॒ । स॒म्ऽवर्ग॑म् । सम् । र॒यिम् । ज॒य॒ ॥


    स्वर रहित मन्त्र

    मा नो अस्मिन्महाधने परा वर्ग्भारभृद्यथा । संवर्गं सं रयिं जय ॥

    स्वर रहित पद पाठ

    मा । नः । अस्मिन् । महाऽधने । परा । वर्क् । भारऽभृत् । यथा । सम्ऽवर्गम् । सम् । रयिम् । जय ॥ ८.७५.१२

    ऋग्वेद - मण्डल » 8; सूक्त » 75; मन्त्र » 12
    अष्टक » 6; अध्याय » 5; वर्ग » 26; मन्त्र » 2

    पदार्थः -
    हे ईश ! अस्मिन् महाधने=संसारे । नः=अस्मान् । असहायान् । मा+परा+वर्क्=मा त्याक्षीः । यथा भारभृद् भारं त्यजति तद्वत् । त्वं संवर्गं=अच्छिद्यमानम् । रयिं=नित्यधनम् । सं+जय=देहि ॥१२ ॥

    इस भाष्य को एडिट करें
    Top