Loading...
ऋग्वेद मण्डल - 8 के सूक्त 75 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 75/ मन्त्र 13
    ऋषिः - विरुपः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः

    अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना॑ । वर्धा॑ नो॒ अम॑व॒च्छव॑: ॥

    स्वर सहित पद पाठ

    अ॒न्यम् । अ॒स्मत् । भि॒यै । इ॒यम् । अग्ने॑ । सिस॑क्तु । दु॒च्छुना॑ । वर्ध॑ । नः॒ । अम॑ऽवत् । शवः॑ ॥


    स्वर रहित मन्त्र

    अन्यमस्मद्भिया इयमग्ने सिषक्तु दुच्छुना । वर्धा नो अमवच्छव: ॥

    स्वर रहित पद पाठ

    अन्यम् । अस्मत् । भियै । इयम् । अग्ने । सिसक्तु । दुच्छुना । वर्ध । नः । अमऽवत् । शवः ॥ ८.७५.१३

    ऋग्वेद - मण्डल » 8; सूक्त » 75; मन्त्र » 13
    अष्टक » 6; अध्याय » 5; वर्ग » 26; मन्त्र » 3

    पदार्थः -
    अग्ने=हे भगवन् ! इयं+दुच्छुना=विस्फोटकादिमहामारी । भियै=भयाय । अस्मद्=अन्यं स्तुतिरहितं पुरुषम् । सिषक्तु=सेवताम् । नः=अस्मभ्यम् । अमवत्=महाबलोपेतम् । शवः=धैर्य्यम् । वर्ध=वर्धय देहि ॥१३ ॥

    इस भाष्य को एडिट करें
    Top